________________
४८०
अनगारधर्मामृते-- wwwwwwwwwwwwwwwwwwwwww.marimmiwwwwwwwww अनशनतपोभावनायां नियुक्तेशुद्धस्त्रात्मरुचिस्तमीक्षितुमपक्षिप्याक्षवर्ग भजन् , निष्ठासौष्ठवमङ्गनिर्ममतया दुष्कर्मनिर्मूलनम् । श्रित्त्वाऽब्दानशनं श्रुतार्पितमनास्तिष्ठन् धृतिन्यकृत,द्वन्द्वः कर्हि लभेय दोलितुलामित्यस्त्वनाश्वांस्तपन्॥२१॥ अस्तु भवतु । कोसौ ? तपन् तपः कुर्वन् । कीदृशः ? अनाश्वान् अनशनव्रतः । कथम् ? इति एवम् । किमिति ? कर्हि लभेय कदा प्राप्नुयामहम् । काम् ? दोर्बलितुलां बाहुबलिकक्षाम् । कीदृशः सन् । धृतिन्यकृतद्वन्द्वः । तिरात्मस्वरूपधारणं स्वरूपविषया प्रसत्तिा । धृत्या न्यकृतान्यभिभूतानि द्वन्द्वानि परीषहा येन सोहं तिन्यकृतद्वन्द्वः। किं कुर्वन् ? तिष्ठन् उद्भः सन् । कथंभूतो भूत्वा ? श्रुतार्पितमनाः श्रुतज्ञानाहितचित्तः । किं कृत्वा ? श्रित्वा प्रतिज्ञाय । किं तत् ? अब्दानशनं संवत्सरोपवासम् । कीदृशम् ? दुष्कर्मनिर्मूलनमशुभकर्म निर्जरणम् । कया श्रित्वा ? अङ्गनिर्ममतया शरीरममत्वत्यागेन, किं कुर्वनू ? भजन सेवमानः। किं तत् ? निष्ठासौष्ठवं चारित्रावष्टम्भम् । किं कृत्वा ? अपक्षिप्य विषयेभ्यो व्यावयं । कम् ? अक्षवर्ग स्पर्शनादिकरणग्रामम् । किं कर्तुम् ? ईक्षितुं साक्षात्कर्तुम् । कम् ? तं शुद्धस्वात्मानम् । कथंभूतो भूत्वा ? शुद्धस्वात्मरुचिः शुद्धत्यन्तनिर्मले स्वात्मनि निजचिद्रूपे रुचिः श्रद्धा यस्यासौ शुद्धस्वात्मरुचिः । बाहुबलि चर्या आर्षे यथा
गुरोरनुमतोऽधीती द्धत्त्वेकविहारताम् । प्रतिमायोगमावर्षमातस्थे किल संवृतः॥ स शंसितव्रतोऽनाश्वान् वनवल्लीततान्तिकः ।
वल्मीकरन्ध्रनिःसर्पत्सपैरासीद्भयानकः ॥ इत्यादि प्रबन्धेन । अनशनम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org