________________
सप्तमोऽध्यायः ।
४७९
संवत्सरलभ्यामित्यर्थः । केन ? षण्मासानशनान्तवश्यविधिना पण्मासानऽनशनं षण्मासानशनं मासषकमुपवासः । तदन्ते यस्य चतुर्थभक्तादेरुपवासस्य सोयं षण्मासानशनान्तः । स एव वश्यविधि. वशीकरणप्रयोगस्तेन । येन किम् ? येनानशनेन । किं भवति ? शुद्ध्यति शुद्धो भवति । द्रव्यभावकर्मभ्यां मुच्यते इत्यर्थः । कोसौ ? आत्मा पुरुषः । किं कुर्वन् ? आवसन अधितिष्ठन् । काम् ? तनुं शरीरम् । किंविशिष्टाम् ? तप्तां क्लिष्टाम् । किमिव ? हेमशिखिना मूषामिव । इवशब्दो यथार्थे । यथा शुद्ध्यति शुद्धं भवति किटकालिकाभ्यां मुच्यते इत्यर्थः । किं तत् ? हेम काञ्चनम् । किं कुर्वत् ? आवसत् । काम् ? मूषाम् । किंविशिष्टाम् ? तप्तां संतप्ताम् । केन ? शिखिना अग्निना ॥
स्वकारणचतुष्टयादुद्भवन्तीमाहारसंज्ञामाहारदर्शनादिप्रतिपक्षभावनया निगृह्णीयादिन्यनुशास्ति
भुक्त्यालोकोपयोगाभ्यां रिक्तकोष्ठतया सतः । वेद्यस्योदीरणाच्चान्नसंज्ञामभ्युद्यती जयेत् ॥ २०॥
जयेद् निगृह्णीयात् । कोसौ ? मुमुक्षुः । काम् ? अन्नसंज्ञामाहाराभिलापम्। किं कुर्वतीम् ? अभ्युद्यतीमाभिमुख्येनोद्गच्छन्तीम् । केभ्यः ? भुक्त्यालोकादिभ्यः भुक्तेराहारस्यालोको दर्शनं भुक्त्यालोकः । तस्या एव चोपयोगो भुक्त्युपयोगः । आहारं प्रति मनःप्रणिधानमित्यर्थः । आलोकश्वोपयोगश्चालोकोपयोगी भुक्तेरालोकोपयोगौ भुक्त्यालोकोपयोगौ। ताभ्यां भुक्त्यालोकोपयोगाभ्याम् । आहारदर्शनेन तदुपयोगेन चेत्यर्थः । तथा रिक्तकोष्ठतया । कोष्ठ आमाशयपकाशयलक्षणो देहस्यान्तर्भागः महास्नोतोऽपरसंज्ञः । रिक्त आहारविरहितः कोष्ठो यस्यासौ रिक्तकोष्ठः । तस्य भावस्तत्ता, तया । तथोदीरणाच्चोदयात् । कत्य ? वेद्यस्य। किं विशिष्टस्य ? असतोऽसातसंज्ञस्य । असातवेदनीयस्येत्यर्थः उक्तं च
आहारदसणेण य तस्सुवओगेण ओमकोट्टाए ।
वेदस्सुदीरणाए आहारे जायदे सण्णा ॥ १ आहारदर्शनेन च तस्योपयोगेन...कोष्ठे । वेदस्योदीरणया आहारे जायते संज्ञा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org