________________
४७८
अनगारधर्मामृते
तस्य जीवितस्य शेषमल्पीभावम् । कया ? अशनोज्झयैव अशनस्य चतुर्विधाहारस्योज्झा त्यागोऽशनोज्झा, तया अशनोज्झया अनशनेन भक्तप्रत्याख्यानेङ्गिनीप्रायोपगमनमरणानामन्यतमेन, न पुनरन्य. थेति एवशब्दार्थः । किंविशिष्टः सन् ? युक्तः समाहितः सन् । किं कृत्वा ? विलध्यातिक्रम्य । किं तत् ? जीवितवम जीवितव्यमार्गम् । किंविशिष्टम् ? दीर्घमायतम् । किं कुर्वन् ? चरन् अनुतिष्ठन् । कान् ? नित्यनैमित्तिकभुक्तिमुक्तिविधीन् । भुक्तेराहरस्य मुक्तिः प्रत्याख्यानं भुक्तिमुक्तिः। भुक्तिमुक्तेर्विधयः प्रकारा भुक्तिमुक्तिविधयः। नित्या लुञ्चाद्याश्रयाः । नैमित्तिकाः कनकावल्याद्याश्रयाः । एतेषां लक्षणं टीकाराधनायां बोध्यम् । नित्याश्च नैमित्तिकाश्च नित्यनैमित्तिकाः । ते च ते भुक्तिमुक्तिविधयश्च नित्यनैमित्तिकभुक्तिमुक्तिविधयस्तान् । कथं चरन् ? यथाशक्ति शक्तेरनतिक्रमेण । निजवीर्यानिगृहनेनेत्यर्थः ।
अनशनतपसि प्ररोचनामुत्पादयन्नाहप्राञ्चः केचिदिहाप्युपोष्य शरदं कैवल्यलक्ष्म्याऽरुचन्, षण्मासानशनान्तवश्यविधिना तां चक्रुरुत्का परे । इत्यालम्बितमध्यवृत्त्यनशनं सेव्यं सदायस्तर्नु, तप्तां शुद्ध्यति येन हेम शिखिना मूषामिवात्माऽऽवसन् ॥१९॥
सेव्यं भक्तव्यम् । किं तत् ? अनशनमुपवासः । कैः ? आर्मुमु. क्षुभिः । कथम् ? सदा नित्यम् । कथं कृत्वा ? आलम्बितमध्यवृत्ति । मध्याऽनुत्कृष्टापकृष्टा वृत्तिापारो मध्यवृत्तिमध्यमचर्या । आलम्बिता स्वीकृता मध्यवृत्तिर्यत्र तदालम्बितमध्यवृत्ति यथा भवत्येवम् । कुतो हेतोः? इति एवं, यतोऽरुचन्नऽद्युतन् । के ? प्राञ्चः पूर्वपुरुषाः । के ते ? केचिद् बाहुबल्यादयः । कया ? कैवल्यलक्ष्म्या केवलज्ञानसंपदा । अनन्तज्ञानादिचतुष्टयश्रियेत्यर्थः । किं कृत्वा ? उपोष्य उपवासं कृत्वा । कम् ? शरदं संवत्सरं यावत् । क ? इहापि अस्मिन्नपि क्षेत्रे । का कथा विदेहक्षेत्रेष्वित्यपिशब्दार्थः । तथा चक्रुः कृतवन्तः । के ? परे पुरुदेवादयः। काम् ? तां कैवल्यलक्ष्मीम् । किंविशिष्टाम् ? उत्कामुत्कण्ठिताम् । कतिपय.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org