________________
सप्तमोऽध्यायः।
४७७ wwwwwwwwwwwwwwmmmmmmmmmmmmmmmmmmmmwwwwwwwwwww
भुक्तिद्वयपरित्यागे त्रिविधो गदितोऽधमः । उपवासस्त्रिधाप्येष शक्तित्रितयसूचकः॥ अशक्तितो भोजनत्यागे दोषमाहयदाहारमयो जीवस्तदाहारविराधितः । नातरौद्रातुरो ज्ञाने रमते न च संयमे ॥१६॥ यद् यस्मात्कारणाद्भवति । कोसौ ? जीवो द्रव्यप्राणप्रधानः प्राणी । किंविशिष्टः ? आहारमय आहारेण कवललक्षणेन निवृत्त इव । तत् तस्मात्कारणान्न रमते न रतिमुपयाति । क ? ज्ञाने न च नापि संयमे । किंविशिष्टः ? आर्तरौद्रातुर आर्तरौद्राभ्यामार्तः । किंविशिष्टः सन् ? आहारविराधितो भोजनं हठात्याजितः ॥ एतदेव भङ्यन्तरेणाहप्रसिद्धमन्नं वै प्राणा नृणां तत्याजितो हठात् । नरो न रमते ज्ञाने दुयोनार्को न संयमे ॥ १७ ॥ भवति । किं तत् ? प्रसिद्ध प्रतीतम् । किम् ? अन्नम् । अद्यते इत्यनमाहारः। किम् ? प्राणा जीवितम् । केषाम् ? नृणां मनुष्याणाम् । कथम् ? वै स्फुटम् । यत एवं ततो नरो न रमते । क्व ? ज्ञाने नापि संयमे । किंविशिष्टः ? दुर्ध्यानात आर्तरौद्राभ्यामाविष्टः । किंविशिष्टः सन् ? त्याजितो मोचितः । किं तत् ? तदन्नम् ।
दीर्घे सत्यायुपि नित्यनैमित्तिकांचोपवासान् यथाशक्ति विधाय तच्छेषमनशनेनैव नयेदिति शिक्षार्थमाहतनित्यनैमित्तिकभुक्तिमुक्तिविधीन्यथाशक्ति चरन्विलध्य । दीर्घ सुधीर्जीवितवम युक्तस्तच्छेषमत्येत्वशनोज्झयैव ॥१८॥
यतोऽनशनतपस एवंविधा गुणाः सिद्धान्ते प्रसिद्धास्तत् तस्मात्कारणात् अत्येतु अतिक्रामतु । कोसौ ? सुधीः सद्बुद्धिः । कम् ? तच्छेषं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org