________________
४७६
अनगारधर्मामृते
परिहार्याणि मुमुक्षुभिः । कानि ? एतानि अशनस्वाद्यपेयखाद्यानि । कस्मात् ? शक्तितो वीर्यानिगृहनेन, ‘शक्तितस्त्यागतपसी' इति वचनात् ॥
उपवासस्योत्तमादिभेदात्रिप्रकारस्यापि प्रचुरदुष्कृताशुनिर्जराङ्गत्वाद्यथाविधि विधेयत्वमाह
उपवासो वरो मध्यो जघन्यश्च त्रिधापि सः। कार्यों विरक्तैर्विधिवद्भागःक्षिप्रपाचनः ॥१४॥ भवत्युपवासः । कीदृशः ? वर उत्तमो, मध्यो मध्यमो, जघन्यश्चाधमः । तस्य करणीयत्वमाह-निधापीत्यादि । कार्यों विधेयः । कोसौ ? स उपवासः । कैः ? विरक्तैः संयमितप्राणीन्द्रियैः । कथम् ? विधिवत् शास्त्रोक्तविधानेन । कतिधा? त्रिधापि त्रिप्रकारोपि । किंविशिष्टो यतः ? बह्वाग:क्षिप्रपाचनो बहूनां प्रचुराणामागसां पातकानां क्षिप्रं शीघ्र पाचनो निर्जराकारकः ॥ उत्तमाधुपवासभेदानां लक्षणान्याहधारणे पारणे सैकभक्तो वर्यश्चतुर्विधः । साम्बुमध्योनेकभक्तः सोधमस्त्रिविधावुभौ ॥ १५॥ वर्य उत्तममुपवासो भण्यते । कीदृशः ? सैकभक्तः सकृद्रोजनयुक्तः । क्व ? धारणे धारणकदिने । न केवलं, पारणे पारणकदिने । तस्य संज्ञान्तरमाह-चतुर्विध इति चतुर्विधसंज्ञकः । तथा भवति मध्यो मध्यम उपवासः । कीदृशः ? साम्बुर्जलपानयुक्तो, धारणे पारणे सैकभक्त इत्येव । तथा भवत्यधमः स उपवासः । कीदृशः ? अनेकभक्तो धारणे पारणे चैकभक्तरहितः साम्बुरित्येव । भवतः ? कौ ? उभौ द्वौ मध्यमाधमौ । कीदृशौ भवतः ? त्रिविधौ त्रिविधसंज्ञौ । उक्तं च
चतुर्णा तत्र भुक्तीनां त्यागे वर्यश्चतुर्विधः। .. उपवासः सपानीयस्त्रिविधो मध्यमो मतः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org