SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः। ४७५ ~ ~ ~ भण्यते । कोसौ ? उपवासः। किमात्मा ? अशनस्वाद्यखाद्यपेय. विवर्जनम् । अशनं च स्वाद्यं च खाद्यं च पेयं चाशनस्वाद्यखाद्यपेयानि । तेषां विवर्जन विधिपूर्वकं त्यजनम् । कस्मात् ? वसनात् । कोर्थः ? लयाल्लीनत्वात् । केषाम् ? अक्षाणां स्पर्शनादीन्द्रियाणाम् । क ? शुद्धात्मनि रागद्वेषरहिते स्वस्वरूपे । किं कृत्वा ? उपेत्य आगत्य । कस्मात् ? स्वार्थानिजनिजविषयात् । उक्तं च उपेत्याक्षाणि सर्वाणि निवृत्तानि स्वकार्यतः। वसन्ति यत्र स प्राजैरुपवासोऽभिधीयते ॥ परे त्वेवमाहुःउपावृत्तस्य दोषेभ्यो यस्तु वासो गुणैः सह । उपवासः स विज्ञेयः सर्वभोगविवर्जितः॥ अशनादीनां लक्षणमाह ओदनाद्यशनं स्वायं ताम्बूलादि जलादिकम् । पेयं खाद्यं त्वपूपाद्यं त्याज्यान्येतानि शक्तितः ॥१३॥ भवति । किं तत् ? अशनम् । किमात्मकम् ? ओदनादि भक्तमौद्वादि । तथा भवति । किं तत् ? स्वाद्यम् । किंलक्षणम् ? ताम्बूलादि क्रमुकदाडिमादि । तथा भवति । किं तत् ? पेयम् । किंरूपम् ? जलादिकं नीरक्षीरादि । तथा भवति । किं तत् ? खाद्यम् । किंस्वभावम् ? अपूपाद्यं पूरिकामोदकादि । तुर्विशेषे । उक्तं च मौद्गोदनाद्यमशनं क्षीरजलाद्यं मतं जिनैः पेयम् । ताम्बूलदाडिमा स्वायं खाद्यं त्वपूपाद्यम् ॥ अपि चप्राणानुपाहि पानं स्यादशनं दशनं क्षुधः। खाद्यते यत्नतः खाद्यं स्वाद्यं स्वादोपलक्षितम् ॥ अथैषां विधिपूर्वकं परिहरणीयत्वमाह-त्याज्यानीत्यादि । त्याज्यानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy