________________
४७४
अनगारधर्मामृते
चतुर्थादीत्यादि । अहोरात्रमध्ये किल द्वे भक्तवेले। तत्रैकस्यां भोजनमेकस्यां च तत्यागः । एकभक्तम् धारणकदिने पारणकदिने च एकभक्तम् । इति द्वयोर्भुक्तवेलयो जनत्यागो द्वयोश्चोपवासदिने तत्त्याग इति चतसृषु भक्तवेलासु चतुर्विधाहारपरिहारश्चतुर्थ इति रूढः । एकोपवास इत्यर्थः । एवं षड्भक्तवेलासु भोजनत्यागः षष्ठो द्वौ उपवासौ । अष्टास्वष्टमस्त्रय उपवासाः । दशसु दशमश्चत्वार उपवासाः । द्वादशसु द्वादशः पञ्चोपवासाः । एवं चतुर्थ आदिर्यस्य षष्ठाद्युपवासस्य स चतुर्थादिः। अर्धवर्ष षण्मासाः। तद्विषयत्वादुपवासोप्यर्धवर्षमुच्यते । अर्धवर्ष षण्मासोपवासोऽन्तः पर्यन्तो यस्य सोर्धवर्षान्तः । चतुर्थादिश्वासावर्धवर्षान्तश्च चतुर्थाद्यर्धवर्षान्त उपवासः क्षपणं सकृद्भुक्तिश्चैकभक्तम् । इत्येवमवतकालमनशनं तप इप्यते । यः पुनरा मृतेर्मरणं यावदुपवासस्तदनवतकालम् । इत्यनशनं तपो द्विधान सूत्रितं प्रतिपत्तव्यम् । उक्तं च
अद्धानशनं सर्वानशनं द्विविकल्पमनशनमिहोक्तम् । विहृतिभृतोद्धानशनं सर्वानशनं तनुत्यागे ॥ एकोपवासमूलः षण्मासक्षपणपश्चिमः सर्वः।
अद्धानशनविभागः स एष वाञ्छानुगं चरतः॥ च शब्दो मध्यजघन्योपवाससमुच्चयार्थो, नो निषेधे ईषदर्थे च विवक्षितत्वात् । तेनाशनस्याभाव ईषदशनं चानशनमिति रूढम् । मुक्त्यर्थ मिति कर्मक्षयार्थ दृष्टफलमंत्रसाधनाद्यनुद्दिश्येत्यर्थः । यच्च दण्डकाचारादिशास्त्रेषु संवत्सरातीतमप्यनशनं श्रूयते तदप्यधं च वर्ष चेत्यर्धवर्षे इत्येकस्य वर्षशब्दस्य लोपं कृत्वा व्याख्येयम् । इतः पदघटना
इष्यते अभिमन्यते पूर्वाचायः । किं तत् ? तपः । किमाख्यम् ? अनशनम् । किं किम् ? उपवासस्तावत् । किंविशिष्टः ? चतुर्थाद्यर्धवर्षान्तः । न केवलं, सद्भुक्तिश्च । अथवा तपोऽनशनमिष्यते । कोसौ उपवासः । कथम् ? आ मृतेर्मरणावधि । किमर्थम् ? मुत्यर्थम् । उपवासस्य निरुक्तिपूर्वकं लक्षणमाहखार्थादुपेत्य शुद्धात्मन्यक्षाणां वसनाल्लयात् । उपवासोऽशनस्वाद्यखाद्यपेयविवर्जनम् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org