________________
सप्तमोऽध्यायः ।
४७३
1
भवति । किं तत् ? शरीरम् । किंविशिष्टम् ? धर्मसाधनं रत्नत्रयाङ्गम् । किंविशिष्टम् ? आद्यं प्रथमम् । किलेत्यागमोक्तौ यत एवं तत् तस्मात्कारणात् यस्येत् प्रयत्नं कुर्वीत तपस्वी । कस्यै ? स्थितये वर्तनार्थम् । कस्य ? अस्य शरीरस्य । केन ? अशनादिना भोजनपानशयना - दिना । कथम् ? तथा तेन प्रकारेण । यथा किम् ? यथा येन प्रकारेण स्युर्भवेयुः । कानि ? अक्षाणीन्द्रियाणि । क ? वशे स्वाधीने । वा अथवा न धावन्ति न लवन्ते । कानि ? अक्षाणि । कथम् ? अनु लक्ष्यीकृत्य । किं तत् ? उत्पथं निषिद्धाचरणम् । कस्मात् ? अनुबद्धतृड्वशादनादिसंबद्धतृष्णापारतन्त्र्यात् । उक्तं च---
वशे यथा स्युरक्षाणि नोत धावन्त्यनृत्पथम् । तथा प्रयतितव्यं स्याद्वृत्तिमाश्रित्य मध्यमाम् ॥
इष्टमृष्टाद्याहारोपयोगे दोषमाह -
इष्टमृष्टोत्कटर सैराहारैरुद्भटीकृताः । यथेष्टमिन्द्रियभटा भ्रमयन्ति बहिर्मनः ॥ १० ॥
।
भ्रमयन्ति इतस्ततो विक्षिपन्ति । के ? इन्द्रियभटा अक्षवीराः । किं तत् ? मनश्चित्तम् । क ? बहिर्बाह्यार्थेषु । कथं कृत्वा ? यथेष्टं यद्यदिष्टमभिप्रेतम् । किंविशिष्टाः सन्तः ? उद्भटीकृता दुर्दमतां नीताः । कैः ? आहारैभोजनैः । किंविशिष्टैः ? इष्टमृष्टोत्कटरसैः इष्टैरभिमतैर्मृष्टैर्मुखप्रियैरुत्कटरसैरुल्वणस्वादैश्च । सद्यः संजीवनैरित्यर्थः । इष्टाश्च मृष्टाश्चोत्कटरसाश्चेति विग्रहः । उक्तं च
न केवलमयं कायः कर्शनीयो मुमुक्षुभिः । नाप्युत्कटरसैः पोप्यो मृष्टैरिष्टैश्च वल्भनैः ॥ तथानशनं तपः सभेदं लक्षयति
चतुर्थाद्य वर्षान्त उपवासोथवाऽऽमृतेः । सकृद्भुक्ति मुक्त्यर्थं तपोनशनमिष्यते ॥ ११ ॥
Jain Education International
•
For Private & Personal Use Only
www.jainelibrary.org