________________
४७२
अनगारधर्मामृते
रिति ग्राह्यम् । कर्माणि चांगतेजश्च रागश्चाशा च कर्माङ्गतेजोरागाशाः । तासां हारिपकर्षः कर्माङ्गतेजोरागाशाहानिः । ध्यानमेकाग्रचिन्तानिरोधः । तदिह प्रकरणात्प्रशस्तं गृह्यते । तेन, धर्म्यं शुक्लं चेत्यर्थः । ध्यानमादिर्येषां स्वाध्यायारोग्यमार्गप्रभावनाकषायमदमथनपरप्रत्ययकरणदयाद्युपकारतीर्थायतनस्थापनादीनां ते ध्यानादयः । उक्तं च-
विदितार्थशक्तिचरितं कायेन्द्रियपापशोषकं परमम् । जातिजरामरणहरं सुनाकमोक्षाश्रयं सुतपः ॥
संमोऽपहृतोपेक्षाभेदाद् द्विधा । कर्माङ्गतेजोरागाशाहानिश्च ध्यानादयश्च संयमौ च ते कर्माङ्गतेजोरागाशाहानिध्यानादिसंयमाः । दुःखक्षमा तापत्रय सहनम् । सुखासङ्गः सुखानभिषङ्गः । ब्रह्मोद्योत आगमप्रभावना ब्रह्मचर्यनिर्मलीकरणं वा । दुःखक्षमा च सुखासङ्गश्च ब्रह्मोयोतश्च ते दुःखक्षमासुखाऽसङ्गब्रह्मोद्योताः । चः समुच्चये ।
बाह्यतपसां परम्परया मनोविजयाङ्गत्वमाचष्टेवास्तपोभिः कायस्य कर्शनादक्षमर्दने ।
छिन्नवाहो भट इव विक्रामति कियन्मनः ॥ ८ ॥
कियत् किं परिमाणं विक्रामति विक्रमं करोति । किं तत् ? मनश्चितम् । न कियदपि विक्रामतीत्यर्थः । क्व सति ? अक्षमर्दने इन्द्रियाणां दर्पदलने सति । कस्मात् ? कर्शनात् कृशीकरणात् । कस्य ? कायस्य । कैः ? तपोभिः । किंविशिष्टैः ? बाौरनशनादिभिः । क इव ? भट इत्र वीरपुरुषो यथा । किंविशिष्टः ? छिन्नवाहः प्रतिभटकृत्तघोटकः ।
तपस्यता भोजनादि तथा प्रयोक्तव्यं यथा प्रमादो न विजृम्भते इति शिक्षार्थमाह
शरीरमाद्यं किल धर्मसाधनं, तदस्य यस्येत् स्थितयेऽशनादिना । तथा यथाक्षाणि वशे स्युरुत्पथं, न वानुधावन्त्यनुबद्धतृवशात् ॥ ९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org