________________
सप्तमोऽध्यायः ।
"वाह्यं तपः परमदुश्चरमाचरंस्त्व, - माध्यात्मिकस्य तपसः परिबृंहणार्थम् ।" इति ।
अनशनादेस्तपरत्वे युक्तिमाह
देहाक्षतपनात्कर्मदहनादान्तरस्य च ।
तपसो वृद्धिहेतुत्वात् स्यात्तपोऽनशनादिकम् ॥ ५ ॥
स्यात् । किं तत् ? तपः । किंविशिष्टम् ? अनशनादिकम् । कस्मात् ? देहाक्षतपनात् शरीरेन्द्रियक्लेशनात् । न केवलं, कर्मदहनादशुभकर्मभस्मीकरणात् । न केवलं, वृद्धिहेतुत्वादुपचयनिमित्तत्वात् । कस्य ? तपसः । किंविशिष्टस्य ? आन्तरस्यान्तरङ्गस्य ।
अनशनादितपसो बाह्यत्वे युक्तिमाह
बाह्यं वल्भाद्यपेक्षत्वात्परप्रत्यक्षभावतः । परदर्शनिपाषण्डिगेहिकार्यत्वतश्च तत् ॥ ६ ॥
तत् तपः स्यात् । किंविशिष्टम् ? बाह्यम् । कस्मात् ? वल्भाद्यपेक्षत्वात् । वल्भा भोजनमादिर्यस्य न्यून भोजनादेस्तद्वल्भादि अपेक्षते बाह्यद्रव्यमपेक्ष्य वर्तत इति वल्भाद्यपेक्षम् । तद्भावात् । न केवलं परप्रत्यक्षभावतः परेषां बाह्यानां स्वयूथ्यपरयूथ्यानां प्रत्यक्षभावात् साक्षात्करणात् । न केवलं, परदर्शनिपाषण्डिगेहिकार्यत्वतश्च । परैबर्दर्शनिभिः सौगतादिभिः पाषण्डिभिश्च कापालिकादिभिर्गेहिभिश्च गृहस्थैः कार्यत्वात् क्रियमाणत्वाच्च ।
बाह्यतपसः फलमाह-
४७१
कर्माङ्गतेजोरागाशाहानिध्यानादिसंयमाः । दुःखक्षमासुखासङ्गब्रह्मोद्योताश्च तत्फलम् ॥ ७ ॥
भवति । किं तत् ? तत्फलं तस्य बाह्यतपसः फलं साध्यम् । किं किम् ? कर्माङ्गादिदुःखक्षमादि च । तत्र कर्मणां ज्ञानावरणादीनामङ्गतेजसश्च देहदीप्ते निरपकर्षः । अथवा कर्माङ्गाणां हिंसादीनां तेजसश्च शुक्रस्य हानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org