________________
अनगारधर्मामृते
स्युर्मिथ्यादर्शनशानचारित्राणि समासतः। बन्धस्य हेतवोन्यस्तु त्रयाणामेव विस्तरः॥ न केवलं संसारायतनानिवृत्तिः, प्रवृत्तिश्च । क ? अमृतोपाये । अमृतस्य मोक्षस्योपायः कारणममृतोपायस्तस्मिन् । रत्नत्रये इत्यर्थः । मतं पुनः। किं तत् ? तपः। कथंभूतं ? आराधनाशास्त्रोपदेशेन उद्योगोपयोगौ उद्यमायोजने। क ? इह औपचारिके चारित्रे । कस्य ? साधोः। किं कुर्वतः? चरतोऽनुतिष्ठतः । कथं कृत्वा ? निर्मायं निर्दम्भम् । शाठ्य. हीनमनुष्ठानं कुर्वत इत्यर्थः । उक्तं च
कायव्वमिणमकायव्वं इदि णादूण होदि परिहारो। तं चेव हवदि णाणं तं चेव य होदि सम्मत्तम् ॥ चरणम्हि तम्हि जो उजमो य आउज्जणा य जा होदि ।
सो चेव जिणेहिं तओ भणियो असढं चरंतस्स ॥ तत्पुनर्यथोक्तलक्षणं तप उभयं द्वयं मतम् । कथम् ? बाह्य बहिवं तथाऽभ्यन्तरमाध्यात्मिकं च । अत्रैतयोर्वाह्याभ्यन्तरयोस्तपसोर्मध्ये बाह्य तपश्चरेदनुतिष्ठेन्मुमुक्षुः । कतिधा ? षोढा षट्प्रकारम् । किं तदित्याहअनशनादि अनशनमुपवास आदिर्यस्थावमौदर्यादेस्तदनशनादि । अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्याशनकायक्लेशलक्षणमित्यर्थः । किं कर्तुम् ? जेतुं वर्धयितुम् । किं तत् ? इतरदभ्यन्तरं तपः। कतिधा ? षोद्वैव पदप्रकारमेव । प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्यु. त्सर्गध्यानात्मकमेवेत्यर्थः । उक्तं च
१ कर्तव्यमिदमकर्तव्यमिति ज्ञात्वा भवति परिहारः। तचैव भवति ज्ञानं तच्चैव च भवति सम्यक्त्वम् ॥ चरणे तस्मिन् य उद्यमश्च आयोजना च या भवति । स चैव जिनैस्तपो भणितः अशाठ्यं चरतः ॥ २-श्रीसमन्तभद्रैः बृहत्स्वयंभूनाम्नि चतुर्विंशतिस्तवे स्वोपचे उक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org