________________
सप्तमोऽध्यायः ।
४६९
केषाम् ? मनोक्षकायाणाम् । मनश्चित्तं चाक्षाणीन्द्रियाणि च कायः शरीरं
च मनोक्षकायास्तेषाम् ।
पुनर्भङ्ग्यन्तरेण तपोलक्षणमाह
यद्वा मार्गाविरोधेन कर्मोच्छेदाय तप्यते । अर्जयत्यक्षमनसोस्तत्तपो नियमक्रिया ॥ ३ ॥
वा अथवा तत् तपो भण्यते । या किम् ? या नियमक्रिया विहिताचरणनिषिद्धपरिवर्जन विधानम् । कयोः ? अक्षमनसोरिन्द्रियचेतसोः । इन्द्रियमनसोर्नियमानुष्ठानं तप इति वचनात् । यत्किम् ? यत्तप्यते । कोर्थः ? अर्जयति । कोसौ ? मुमुक्षुः । कस्मै ? कर्मोच्छेदाय कर्मणां ज्ञानावरणादीनां शुभाशुभकर्मणोर्वोच्छेदायोन्मूलनार्थम् । केन ? मार्गाविरोधेन रत्नत्रयानुपघातेन ।
पुनरपि शास्त्रान्तरप्रसिद्धं तपोलक्षणमन्वाख्याय तद्भेदप्रभेदनसूचनपुरस्सरं तदनुष्ठानमुपदिशति —
संसारायतान्निवृत्तिरमृतोपाये प्रवृत्तिश्व या, तद्वृत्तं मतमौपचारिक मिहोद्योगोपयोगौ पुनः । निर्मायं चरतस्तपस्तदुभयं बाह्यं तथाभ्यन्तरं, पोढाऽत्राऽनशनादि बाह्यमितरत् पोढैव चेतुं चरेत् ॥ ४ ॥
मतं संमतं पूर्वाचार्याणाम् । किं तत् ? तद्वृत्तं चारित्रम् । किं विशिष्टम् ? औपचारिकं व्यावहारिकम् | या किम् ? या निवृत्तिर्व्यावृत्तिः । कस्मात् ? संसारायतनात् संसारस्य द्रव्यादिपञ्चधा परिवर्तनस्यायतनं कारणं संसारायतनं बन्धः, 'तच्चेह मिथ्यादर्शनादित्रयं, कारणे कार्योपचारात्' तस्मात् ।
उक्तं च
बन्धस्य कार्य संसारः सर्वदुःखप्रदोङ्गिनाम् । द्रव्यक्षेत्रादिभेदेन स चानेकविधः स्मृतः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org