SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ अथ सप्तमोऽध्यायः॥७॥ __ अथातः सम्यक्तपआराधनामुपदेष्टुकामो मुक्तिप्रधानसाधनवैतृष्ण्यसिद्ध्यर्थं नित्यं तपोऽर्जयेदिति शिक्षयन्नाह ज्ञाततचोपि वैतृष्ण्यादृते नानोति तत्पदम् । ततस्तत्सिद्धये धीरस्तपस्तप्येत नित्यशः॥१॥ तप्येत अर्जयेत् । कोसौ ? धीरः परीषहोपसगैंरक्षोभ्यः । किं तत् ? तपो वक्ष्यमाणलक्षणम् । कथम् ? नित्यशो नित्यम् । कस्यै ? तत्सिद्धये तस्य वैतृष्ण्यस्य सिद्धिनिष्पत्तिः संप्राप्तिा तसिद्धिस्तस्यै । कस्मात् ? तत. स्तस्माद्धेतोः। यतः किम् ? यतो नाप्नोति न लभते । कोसौ ? ज्ञाततत्त्वः । ज्ञातं निर्णीतं तत्त्वं हेयमुपादेयं च वस्तुस्वरूपं येनासौ ज्ञाततत्त्वः। किं पुनरज्ञाततत्त्व इत्यपिशब्दार्थः। किं तत् ? तत्पदं तस्यानन्तज्ञानादिचतुष्टयस्य पदं स्थानं तत्पदम्। कथम् ? ऋते विना । कस्मात् ? वैतृएण्यात । विगता तृष्णा स्पृहा यस्यासौ वितृष्णो वीतरागद्वेषः क्षायिकयथाख्यातचारित्रसंपन्नः । वितृष्णस्य भावो वैतृष्ण्यं, तस्माद्वैतृष्ण्यात् । वीतरागत्वादित्यर्थः । तपसो निर्वचनमुखेन लक्षणमाह तपो मनोक्षकायाणां तपनात् सनिरोधनात् । निरुच्यते दृगाद्याविर्भावायेच्छानिरोधनम् ॥ २॥ निरुच्यते निर्वचनगोचरीक्रियते । अर्थानुगतं कथ्यते इत्यर्थः । कैः ? नैरुक्तैरिति शेषः। किं तत् ? तपः । किं लक्षणम् ? इच्छानिरोधनम् इच्छाया हातुमुपादातुं च वान्छाया निरोधनं नियतं रोधनं निवारणम् । किमर्थम् ? दृगाद्याविर्भावाय गादीनां सम्यग्दर्शनादीनामाविर्भावोभिव्यक्तिहंगाद्याविर्भावस्तस्मै । रत्नत्रयाविर्भावार्थमिच्छानिरोधस्तप इत्यभिधा. नात् । कस्मात् ? तपनात् । कोर्थः ? सन्निरोधनात् सम्यग्निवारणात् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy