________________
५०४
.
अनगारधर्मामृते
षस्य धर्मकथादिव्यासङ्गेन विस्मरणे सति पुनः करणे अन्यत्रापि चैवंरूपे आलोचनमेव प्रायश्चित्तम् । षडिन्द्रियवागादिदुष्परिणाम आचार्यादिषु हस्तपादादिसंघटने व्रतसमितिगुप्तिषु स्वल्पाचारे पैशून्यकलहादिकरणे वैया. वृत्त्यस्वाध्यायादिप्रमादे गोचरगतस्य लिङ्गोत्थाने अन्यसंक्लेशकरणादौ च प्रतिक्रमणं दिवसराज्यन्ते भोजनगमनादौ च प्रसिद्धम् । लोचनखच्छेदस्वमेन्द्रियातिचाररात्रिभोजनेषु पक्षमाससंवत्सरादिदोषादौ चोभयम् । मौना. दिना विनालोचनकरणे उदरकृमिनिर्गमे हिमदंशमशकादिमहावातादिसंघर्षातीचारे स्निग्धभूहरिततृणपङ्कोपरिगमने जानुमात्रजलप्रवेशान्यनिमित्तवस्तुस्वोपयोगकरणे नावा नदीतरणे पुस्तकप्रतिमापातनपञ्चस्थावरविधातादृष्टदेशतनुमलविसर्गादिषु पक्षादिप्रतिक्रमणक्रियान्तव्याख्यानप्रवृ. त्यन्तादिषु कायोत्सर्ग एव प्रायश्चित्तम् । उच्चारप्रसवणादौ च प्रसिद्धः कायोत्सर्गः । अनशनादिकरणस्थानमागमाद्बोद्धव्यम् ॥ तपः। अथ छेदं निर्दिशति-- चिरप्रव्रजितादृप्तशक्तशूरस्य सागसः । दिनपक्षादिना दीक्षाहापनं छेदमादिशेत् ॥ ५४ ॥
आदिशेत् कथयेदाचार्यः । कम् ? छेदम् । किंरूपम् ! दीक्षाहापनं प्रव्रज्यात्याजनम् । केन ? दिनपक्षादिना दिवसपक्षमासादिविभागेन । कस्य ? चिरप्रव्रजितादृप्तशक्तशूरस्य । अदृप्तोऽगर्वितः। शक्तः समर्थः । शूरो विक्रांतः । चिरप्रव्रजितश्चासावदृप्तश्च चिरप्रव्रजितादृप्तः । स चासो शक्तश्च चिरप्रव्रजितादृप्तशक्तः । स चासौ शूरश्व, तस्य । किंविशिष्टस्य सतः ? सागसः सापराधस्य । छेदः । अथ मूललक्षणमाहमूलं पार्श्वस्थसंसक्तस्वच्छन्देष्ववसन्नके । कुशीले च पुनर्दीक्षादानं पर्यायवर्जनात् ।। ५५ ॥ मूलं नाम प्रायश्चित्तं भवति । किंरूपम् ? पुनर्दीक्षादानं भूयः प्रन.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org