________________
अनगारधर्मामृते
शिवपाण्डुपुत्रसुकुमालस्वामिविद्युचराः । ते प्रष्टा अग्रेचरा येषां ते तथोताः । प्रष्टग्रहणादचेतनकृतोपसर्गा एणिकापुत्रादयो, मनुष्यकृतोपसर्गा गुरुदत्तगजकुमारादयः, तिर्यकृतोपसर्गाः सिद्धार्थसुकोशलादयः देवकृतोपसर्गाः श्रीदत्तसुवर्णभद्रादयो यथागममधिगन्तव्याः। कथंभूताः सन्तः ? सोढविचिनतिर्यगमरोत्थानोपसर्गाः। कस्मात् ?क्रमाद् यथासंख्येन। कस्मात् ? स्वध्यानादात्मस्वरूपप्रणिधानात् । विचितश्चाचेतना नरश्च मनुष्यास्तिर्यञ्चश्च तैर्यग्योना अमराश्च देवाः। ते उत्थानानि कारणानि येषां ते विचिन्नृतिर्यगमरोस्थानाः ते च ते उपसर्गाश्च । सोढास्ते यैस्ते तथोताः । यत एवं तत् तस्मात्तत्पदं धाम । प्रेप्सवः प्रातुमिच्छवो बुधा विद्वांसो धुन्वन्तु प्रतिबध्नन्तु । किं तत् ? अजन्यमुपसर्गम् । कीदृशम् ? येन तेन जनितमचेतनादीनामन्यतमेनोत्पादितम् । किंविशिष्टाः सन्तः ? लीनाः श्लिष्टाः। क ? स्वात्मनि चिदानन्दमये आत्मस्वरूपे । अचेतनादिचतुर्विधोपसर्गजयः ।
परीषहोपसर्गसहनं प्रकृतमुपसंहरन् बाह्याभ्यन्तरतपश्चरणाय शिवपुरपान्थमुद्यमयितुमाह
इति भवपथोन्माथस्थामप्रथिग्नि पृथद्यमः, शिवपुरपथे पौरस्त्यानुप्रयाणचणश्वरन् । मुनिरनशनाद्यस्वैरुग्रैः क्षितेन्द्रियतस्कर,--
प्रसूतिरमृतं विन्दत्वन्तस्तपःशिबिकां श्रितः॥ ११२।। मुनिः संयतो विन्दतु लभताम् । किं तत् ? अमृतं मोक्षममृतपान. सहचर्यात्, स्वर्ग वा । किंविशिष्टः सन् ? श्रितोऽधिष्ठितः। काम् । अन्तस्तपःशिबिकामऽभ्यन्तरतपोयाप्ययानम् । कथंभूतो भूत्वा ! क्षितेन्द्रियतस्करप्रमृतिनिराकृताक्षचौरप्रसरः । कैः ? अनशनाद्यस्त्रै रनशनावमौदर्यप्रभृतिशस्त्रैः । किंविशिष्टैः ? उग्रैर्दुःसहैः । किंविशिष्ट सन् ? पृथूद्यमो महोत्साहः। क ? भवपथोन्माथस्थामप्रथिम्नि मिथ्यात्वादित्रयोच्छेदार्थशक्तिविस्तारे । पुनः किंविशिष्टः ? पौरस्त्यानु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org