________________
षष्ठोऽध्यायः ।
४६५
दयद्रव्यपरिसहनपरीषहसद्भावाद् 'एकादश जिने' सन्तीत्युपचारो युक्तः । वेद्यकर्मोदयद्रव्यसद्भावादेकादश जिने सन्ति । घातिकर्मबलसहाय रहितं वेद्यं फलवन्न भवति । तेन, एकादर्श जिने न सन्ति । एवं सति स्यादस्ति, स्यान्नास्तीति स्याद्वाद उपपन्नो भवति । तथा च शतकस्य प्रदेशबन्धे वेदनीयभागविशेषकारणकथनेप्युक्तम्
'जम्हा वेदणीयस्स सुखदुःखोदयं सणाणावरणादि उदयादि उपकारकारणं तम्हा वेदणीयं से व पागडो सुहदुःखोदयं दिस्सदे' इति ।
तस्माद्वेदनीयं घातिकर्मोदयं विना फलवन्न भवतीति सिद्धम् । इति । नरकतिर्यग्गत सर्वे परीषहाः । मनुष्यगतावोघभङ्गा भवन्ति । देवगतौ घातिकर्मोत्थपरीष हैः सह वेदनीयोत्पन्नक्षुत्पिपासाबधैः सह चतुर्दश भवन्ति । इन्द्रियकाय मार्गणयो: सर्वे परीषहाः सन्ति । वैक्रियिकद्वितयस्य देवगतिभङ्गः । तिर्यग्मनुष्यापेक्षया द्वाविंशतिः । शेषयोगानां वेदादि - मार्गणानां च स्वकीयस्वकीयगुणस्थानभङ्गा भवन्ति ।
एवं द्वाविंशतिक्षुधादिपरीपहजयं प्रकाश्य तदनुपप्राप्तमुपसर्गसहनमुदाहरणपुरस्सरं व्याहरन्नाह
स्वध्यानाच्छिवपाण्डुपुत्रसुकुमालस्वामिविद्युच्चर, - प्रष्टाः सोढ विचिन्नृतिर्यग मरोत्थानोपसर्गाः क्रमात् । संसारं पुरुषोत्तमाः समहरंस्तचत्पदं प्रेप्सवो लीनाः स्वात्मनि येन तेन जनितं धुन्वन्त्वजन्यं बुधाः ॥ १११ ॥
समहरन् संहरन्ति स्म । के ? पुरुषोत्तमाः । कम् ? संसारम् । किं विशिष्टाः ? शिवपाण्डुपुत्रसुकुमालस्वामिविद्युच्चरप्रष्टाः । शिवः शिवभूतिर्नाम मुनिः । शिवश्च पाण्डुपुत्राश्च सुकुमालस्वामी च विद्युच्चरश्च
१ प्रज्ञाऽज्ञाने अदर्शनालाभौ अरतिस्त्रियौ नाम्यनिषद्याक्रोशयाचनासत्कारपुरस्काराः ।
२ यस्माद्वेदनीयस्य सुखदुःखोदयः सज्ञानावरणाद्यदयाद्युपकारकारणं तस्माद्वेदनी ये स एव प्राकृतो सुखदुःखोदयो दृश्यते ॥ इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org