________________
४६४
अनगारधर्मामृते
___ अयमर्थः, दुष्करतपोनुष्टायिनो वैराग्यभावनापरस्य ज्ञातसकलतत्त्वस्य चिरंतनतिनोद्यापि मे ज्ञानातिशयो नोत्पद्यते । महोपवासाद्यनुष्ठायिनां प्रातिहार्यविशेषाः प्रादुरभूवन्निति कथनं प्रलापमात्रम् । अनर्थिकेयं प्रव्रज्या। विफलं व्रतपालनम् । इत्येवमचिन्तयतो दर्शनविशुद्धियोगाददर्शनपरीषहसहनं स्यादिति ।
किंच, एते सर्वेपि परीषहाः कर्मोदयजनिताः । तद्यथा-ज्ञानावरणे प्रज्ञाज्ञाने । दर्शनमोहान्तराययोरदर्शनालाभौ । मानकषाये नान्यनिषद्याक्रोशयाचनासत्कारपुरस्काराः । अरतिवेदयोररतिस्त्रीपरीषहौ । वेदनीये क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्याबधरोगतृण. स्पर्शमलाः। एकसिञ्जीवे एकस्मिन् काले एकादयः परीषहा आ एकानविशतेर्युगपद्भवन्ति । तद्यथा, शीतोष्णपरीषहयोरेकः । शय्यानिषद्याचर्याणां चान्यतम एव भवति । श्रुतज्ञानापेक्षया प्रज्ञाप्रकर्षे सति अवध्याद्यभावा पेक्षयाऽज्ञानोत्पत्तेः सहावस्थाविरोधो न भवति । मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्यऽसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्तसंयताप्रमत्तसंयतेषु सप्तसु गुणस्थानेषु सर्वे परीषहाः सन्ति । अदर्शनपरीषहं विनाऽपूर्वकरणे ए. कविंशतिपरीषहा भवन्ति । अरतिपरीषहमन्तरेण सवेदानिवृत्तौ विंशतिः परीषहाः स्युः। अवेदाऽनिवृत्तौ स्त्रीपरीषहे नष्टे एकानविंशतिः परीषहा भवेयुः । तस्यैव मानकषायोदयक्षयान्नाग्यनिषद्याक्रोशयाचनासत्कारपुरस्कारा विनश्यन्ति । तेषु विनष्टेष्वनिवृत्तिसूक्ष्मसांपरायोपशान्तकषायक्षीणकषायेषु चतुर्पु गुणस्थानेषु चतुर्दश परीषहाः सन्ति । क्षीणकषाये प्रज्ञाऽज्ञानालामा विनश्यन्ति । सयोगिभट्टारकस्य ध्यानानल निर्दग्धघातिकमॆन्धनस्यानन्ता. प्रतिहतज्ञानादिचतुष्टयस्यान्तरायाभावान्निरन्तरमुपचीयमानशुभपुदलसंतते. वेंदनीयाख्यं कर्म विद्यमानमपि प्रक्षीणघातिसहायबलं स्वप्रयोजनोत्पादनं प्रत्यसमर्थम् । यथा विषद्रव्यं मन्त्रौषधिबलादुपक्षीणमारणशक्तिकमुपयुज्यमानं मारणाय न समर्थम् । यथा छिन्नमूलतरुः कुसुमफलप्रदो न भवति । यथोपेक्षावतोरनिवृत्तिसूक्ष्मसाम्पराययोमैथुनपरिग्रहसंज्ञा । यथा च परि. पूर्णज्ञाने एकाग्रचिन्तानिरोधाभावेपि कर्मरजोविधूननफलसंभवाङ्यानोपचारः । तथा क्षुधारोगबधादिवेदनासद्भावपरीषहाऽभावे वेदनीयकर्मों
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org