________________
षष्ठोऽध्यायः ।
अपसर्पेदपसरेत्साधुः । कस्याः ? अत एतस्या अज्ञानरुजोऽज्ञानपरीषहात् । अज्ञानपरीषहपरतन्त्रमात्मानं न कुर्यादित्यर्थः । कथम् ? इति । किमिति ? असिधन् सिद्धाः । के ? पूर्वे प्राञ्चस्तपस्विनः । केन ? येन तपसा । कथम् ? आशु शीघ्रम् । कथम् ? किल एवं ह्यागमे श्रूयते । तत् तपो मे मम चिरं बहुतरकालमभ्यस्तवतोपि भावितवतोपि न बोभोति भृशं न भवति । कोसौ ? बोधो ज्ञानम् । कथम् ? अद्यापि अधुनापि । अपि तु किंतु उच्य के कुत्सितमुच्ये व्याहियेऽहम् । किम् ? गौः पशुः । लोकैरिति शेषः ।
अयमर्थः, अज्ञोयं, न किंचिदपि वेत्ति, पशुसम इत्याद्यधिक्षेपवचन सहमानस्य सततमध्ययनरतस्य निवृत्तानिष्टमनोवाक्कायचेष्टस्य महोपवासाद्यनुष्ठायिनोद्यापि मे ज्ञानातिशयो नोत्पद्यते इत्यनभिसंदधतोऽज्ञानपरीषहजयः स्यादिति ।
अदर्शनसहनमाह
-
महोपवासादिजुषां मृषोद्याः, प्राक् प्रातिहार्यातिशया न ही । किंचित्तथाचार्यपि तद्वथैषा, निष्ठेत्यसन् सदृगदर्शनास ॥ ११० ॥
Jain Education International
४६३
?
सद्दृग् दर्शनविशुद्धियुक्तः साधुरदर्शनास अदर्शन परीषहस्य सहिता स्यादित्यर्थः । अदर्शनं सहते विप्यागतनिवृत्ते "नहिवृतिवृषिव्यधिरुचिसहितनिषु कौ" इत्यनेन दीर्घः । किं कुर्वन् ? असन् अभवन् । कथम् इति । किमिति ? भवन्ति । के ? प्रातिहार्यातिशया आपत्प्रतीकारज्ञानातिशयनानि । किंविशिष्टाः ? मृषोद्या मिथ्या कथ्यमानाः । केषाम् ? महोपवासादिजुषां पक्षमासाद्युपवाससेविनाम् । कथम् ? प्राक् पूर्वस्मिन् काले हि यस्मान्न ईक्षे न पश्याम्यहम् । किं तत् ? किंचित् प्रातिहार्यातिशयसदृशम् । किंविशिष्टोपि ? तथाचार्यपि महोपवासाद्यनुष्ठानव्रतोपि । तत् तस्माद्वर्तते । कासौ ? एषा निष्ठा तपोनुष्ठानम् । कथम् ? वृथा व्यर्था 1
For Private & Personal Use Only
www.jainelibrary.org