SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ अनगारधर्मामृते सर्वज्ञसंभावनया संमान्य स्वसमयप्रभावनां कुर्वन्ति । व्यन्तरादयः पुराऽत्युग्रतपसां प्रत्यग्रपूजां निर्वर्तयन्तीति यदि न मिथ्या श्रुतिस्तदा कस्मादस्माशामेते समयगता अप्यनादरं कुर्वन्ति । इति प्रणिधानरहितचित्तस्य मानापमानयोस्तुल्यमनसः सत्कारपुरस्कारपरीषहजयः स्यादिति । प्रज्ञापरीषहमाह विद्याः समस्ता यदुपज्ञमस्ताः प्रवादिनो भूपसभेषु येन । प्रज्ञोर्मिजित सोस्तु मदेन विप्रो गरुत्मता यद्वदखाद्यमानः १०८ ४६२ अस्तु भवतु । कोसौ ? स साधुः प्रज्ञोर्मिजित् प्रज्ञापरीषहजेता । किं क्रियमाणः ? अखाद्यमानोऽभक्ष्यमाणः । केन ? मदेन ज्ञानदर्पेण । क इव ? विप्रो गरुत्मता यद्वद्दू गरुडेन स्वमातृवाक्यान्निपादखादनावसरे तत्संबलितो मुखान्तर्गतो ब्राह्मणो यथा । तथा च माघकाव्यम् — सार्धं कथंचिदुचितैः पिचुमर्द पत्रे, - रास्यान्तरालगतमाम्रदलं म्रदीयः । दासेरकः सपदि संवलितं निषादै, - विप्रं पुरा पतगराडिव निर्जगार ॥ कोसौ साधुरस्तु प्रज्ञोर्मिजित् ? यदुपज्ञं यस्योपज्ञा प्रथमोपदेशः स्यात् । काः ? विद्याः । किंविशिष्टाः ? समस्ता अङ्गपूर्वप्रकीर्णकलक्षणाः । येन चास्ता निराकृताः । के ? प्रवादिनः प्रकृष्टा अनुमानवादिनः । केषु ? भूपसभेषु बहुराजसभासु । अज्ञानपरीषहजयमाह पूर्वेऽसिधन येन किलाशु तन्मे, चिरं तपोभ्यस्तवतोपि बोधः । नाद्यापि बोभोत्यपि तूच्यकेहूं, गौरित्यतोऽज्ञानरुजोऽपसर्पेत् ।। १०९ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy