________________
षष्ठोऽध्यायः।
क्षमते सहते साधुः । कम् ? मलोमि मलपरीषहम् । किंविशिष्टः सन् ? नैर्मल्यकामः कर्ममलपङ्कापनोदार्थी । कथंभूतो भूत्वा ? रोमेत्यादि । रोमाणि तनुरुहाणि आस्पदं स्थानं यस्य । स चासौ खेदमल: प्रस्वेदपङ्कः । तस्मादुस्था उत्थानं येषां ते रोमास्पदस्वेदमलोत्थाः। ते च ते सिध्मप्रायाश्च दुर्भित्तककच्छुदद्रुप्रमुखाः। तेभ्यो जातायामती कण्ड्वाख्यपीडायामवज्ञातमऽवहेलितं वपुः शरीरं येन स एवम् । तथा कृपावान् । बादरनिगोदप्रतिष्ठितजीवदयार्थमुद्वर्तनं जलजन्त्वादिरक्षार्थ च स्नानं त्यजन्निति भावः । तथा केशापनेता केशानां लुञ्चकः । एतेन केशलुञ्चने तत्संस्काराकरणे च महान् खेदः संजायते । इति तत्सहनमपि मलधारणेन्तर्भवतीत्युक्तं प्रतिपत्तव्यम् । तथा अन्यमलाग्रहीता परमलोपचयत्यागीत्यर्थः । सत्कारपुरस्कारपरीषहजयमाह
तुष्येन्न यः स्वस्य परैः प्रशंसया, श्रेष्ठेषु चाग्रे करणेन कर्मसु । आमन्त्रणेनाथ विमानितो न वा,
रुष्येत्स सत्कारपुरस्क्रियोर्मिजित् ॥ १०७॥ सत्कारः पूजाप्रशंसात्मकः । पुरस्क्रिया पुरस्कारः क्रियारम्भादिष्वग्रतः करणम् । सत्कारञ्च पुरस्क्रिया च सत्कारपुरस्क्रिये । तयोरूमिः परीषहः सत्कारपुरस्क्रियोर्मिः । तं जयति सत्कारपुरस्क्रियोमिजित् स साधुः स्यात् । यः किम् ? यो न तुष्येत् नोपं न गच्छेत् । कया ? प्रशंसया। कस्य ? स्वस्यात्मनः । कैः ? परैरुत्कृष्टपुरुषैः क्रियमाणया। न केवलम्, अग्रे करणेन च पुरस्कारेण । केषु ? कर्मसु क्रियासु। किंविशिष्टेषु ? श्रेष्ठेषु नन्दीश्वरादिपर्वयात्राद्यात्मकक्रियादिषु । अथ अथवाऽऽमन्त्रणेन आकारणेन । वा अथवा न रुष्येन्न रोषं गच्छेत् । किं विशिष्टः सन् ? विमानितः खण्डितमाहात्म्योऽवज्ञातो वा तैः । अय. मर्थः-चिरोपितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयज्ञस्य हितोपदेशकथामार्गकुशलस्य बहुकृत्त्वः परवादिविजयिनः 'प्रणामभक्तिसंभ्रमासनप्रदानादीनि न मे कश्चित्करोति । वरं मिथ्या दशः, स्वसमयगतमज्ञमपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org