________________
४६०
अनगारधर्मामृते
दुरन्तपापान्तविधित्सया सुधीः, स्वस्थोधिकुर्वीत सनत्कुमारवत् ॥ १०४ ॥ सुधीः आत्मदेहान्तरज्ञानपरिणतोऽधिकुर्वीत प्रसहेत । कान् ? रोगान् कुष्टादिव्याधीन् युगपदुपस्थितान् । कीदृशानपि ? अतिदुःसहानपि अत्यन्तं सोढुमशक्यानपि । किंविशिष्टोपि ? शक्तोपि समर्थोपि । किं कर्तुम् ? चिकित्सितुं प्रतिकर्तुम् । केन ? तपोमहिना जल्लौषधिप्राप्स्यायनेकतपोविशेषर्द्धिलब्ध्या । कथम् ? सहसा झटिति । किंविशिष्टः सन् ? स्वस्थो निराकुलः । किंवत् ? सनत्कुमारवत् सनत्कुमारचक्रवर्ती यथा । कया ? दुरन्तपापान्तविधित्सया दुरवसानदुष्कृतविनाशचिकीर्षया ।
तृणस्पर्शक्षमणमाहतृणादिषु स्पर्शखरेषु शय्यां भजनिषद्यामथ खेदशान्त्यै । संक्लिश्यते यो न तदर्तिजातखर्जुस्तुणस्पतितिक्षुरेषः ॥१०५॥
एष साधुस्तृणस्पर्शतितिक्षुस्तृणस्पर्शपरीषहसहनशीलः स्यात् । यः किम् ? यो न संक्लिश्यते दुःखं न चिन्तयति । किंविशिष्टः सन् ? तदर्तिजातखर्जुः। तेभ्यः शुष्कतृणादिभ्यो जातायामतौं पीडायां जाता उत्पन्ना खर्जुः कण्डूविकारो यस्य स एवम् । किं कुर्वन् ? भजन सेवमानः । काम् ? शय्यां शयनं निषद्यामथ उपवेशनं वा । कस्यै ? खेदशान्त्यै व्याधिमार्गगमनशीतोष्णजनितश्रमापनोदार्थम् । केषु ? तृणादिषु । तृणग्रहणमुपलक्षणम् । तेन शुष्कतृणपत्रभूमिकटफलकशिलादिषु प्रासुकेष्व. संस्कृतेषु । किंविशिष्टषु ? स्पर्शखरेषु स्पर्शेषु कर्कशेषु । मलपरीषहसहनमाह
रोमास्पदखेदमलोत्थसिध्म,प्रायार्त्यवज्ञातवपुः कृपावान् । केशापनेतान्यमलाग्रहीता, नैर्मल्यकामः क्षमते मलोमिम् ॥ १०६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org