________________
षष्ठोऽध्यायः।
४५९
ग्लपितनैसर्गिकशक्तिः। तथा भासितात्मा दर्शितस्वरूपः । सकृन्मूर्तिसंदर्शनचतकाल इत्यर्थः । कथम् ? प्रति उद्दिश्य । कान् ? दातृन् दानोधतान् । का इव ? शम्पेव विद्युद्यथा, दुरुपलक्षमूर्तित्वात् ।
अलाभपरीपहं दर्शयतिनिःसङ्गो बहुदेशचार्यऽनिलवन्मौनी विकायप्रती,कारोऽयेदमिदं श्व इत्यविमृशन् ग्रामस्तभिक्षः परे । बहोकःस्वपि बह्वहं मम परं लाभादलाभस्तपः, स्यादित्यात्तधृतिः पुरोः स्मरयति स्मानिलाभं सहन्॥१०३॥
स्मरयति स्मरतः प्रयोजयति । कोसौ ? साधुः। किंकुर्वन् ? अलाभं सहन् अलाभपरीष सहमानः । कान् ? स्मार्तान स्मृतिः परमागमोद्धारशास्त्रम् । तां विदन्त्यधीयते वा ये तान् । कस्य ? पुरोरादिनाथस्य । कर्मण्यत्र षष्ठी । किंविशिष्टः सन् ? आत्तधृतिः । आत्ता गृहीता धृतिः संतोषो येनासौ । संतुष्ट इत्यर्थः । कथम् ? इति । किमिति ? स्यात् । किं तत् ? तपः । किंविशिष्टम् ! परमुत्कृष्टम् । कस्य ? मम । किं तपः स्यात् ? अलाभः। कस्मात् ? लाभात् । केषु? बह्वोकस्सु बहुषु गृहेषु । किम् ? बह्वहमपि बहून्यपि दिनानि । पुनः किंविशिष्टः ? निःसङ्गो निर्ग्रन्थः संसक्तिरहितश्च । किंवत् ? अनिलवद् वायुर्यथा । पुनः किंविशिष्टः ? बहुदेशचारी बहुषु जनपदेषु चरणशीलः । तथा मौनी वाचंयमः। तथा विकायप्रतीकारः कायप्रतीकाररहितः । तथा अविमृ. शन् असंकल्पयन् । कथम् ? इति । किमिति ? इदं गृहमद्य विहर्तव्यमिदं च श्वः प्रभाते । तथा अस्तभिक्षो निराकृतभिक्षावृत्तिः । व? ग्रामे । किंविशिष्टे ? परे तद्दिनभिक्षाविषयीकृतादन्यत्र । एकस्मिन् ग्रामे भिक्षामलब्ध्वा ग्रामान्तरान्वेषणनिरुत्सुक इत्यर्थः । रोगसहनमाह
तपोमहिना सहसा चिकित्सितुं, शक्तोपि रोगानतिदुस्सहानपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org