________________
४५८
अनगारधर्मामृते
कथम् ? मृधं शीघ्रम् । किं कुर्वतः ? प्रविध्यतः प्रकर्षेण व्यथयतः । कानि ? अरूंषि मर्माणि । कैः ? चण्डदुरुक्तिकाण्डैरत्यन्तानिष्टदुवचनबाणैः। वधतितिक्षामाहनृशंसेऽरं कचित्स्वैरं कुतश्चिन्मारयत्यपि । शुद्धात्मद्रव्यसंवित्तिवित्तः स्याद्वधमर्षणः ॥१०१॥ स्यात्संयतः। किं विशिष्टः ? वधमर्षणो वधपरीषहसहनः । किंविशिष्टः सन् ? शुद्धत्यादि । द्रव्यमविनाशिरूपम् । आत्मैव द्रव्यमात्मदव्यम् । शुद्धं च निर्मलं तदात्मद्रव्यं च शुद्धात्मद्रव्यम् । तस्य संवित्तिः संवेदनमनुभवनम् । तेन वित्तः प्रतीतः । शुद्धात्मद्रव्यसंवित्तिरेव वित्तं धनमस्येति वा । अयमों, विनश्वरं दुःखदं शरीरमेवानेन हन्यते न पुनज्ञानादिकमिति भावयन्नित्यर्थः । क सति ? नृशंसे क्रूरकर्मकारिणि चोरारक्षकादौ क्वचित् क्वापि । किं कुर्वत्यपि ? मारयत्यपि प्राणैर्वियोजयत्यपि । कस्मात् ? कुतश्चिद्धेतोईष्टाददृष्टाद्वा । कथम् ? अरं शीघ्रम् । कथं कृत्वा ? स्वैरं स्वच्छन्दम् । याचनापरीषहसहनाय साधुमुत्साहयति
भृशं कृशः क्षुन्मुखसन्नवीर्यः, शम्पेव दातृन् प्रति भासितात्मा । ग्रासं पुटीकृत्य करावड्याजा,
व्रतोपि गृह्णन् सह याचनार्तिम् ॥ १०२॥ भोः साधो सह क्षमस्व त्वम् । काम् ? याचनाति याचनापरीषहम् किं कुर्वन् ? गृह्णन् आददानः । कम् ? ग्रासं कवलम् । किं कृत्वा ? पुटीकृत्त्य पुटाकारौ कृत्वा । को? करौ हस्तौ । किंविशिष्टोपि ? अया. जावतोपि प्राणात्ययेप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवाङ्गसंशादिभिरयाचमानोपीत्यर्थः । कीदृशः सन् ? भृशमत्यर्थं कृशः उण्णतास्थिस्नायुजालादिः । तथा क्षुन्मुखसन्नवीर्यः क्षुदध्वपरिश्रमतपोरोगादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org