SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। ४५७ शय्यापरीषहक्षमामुपदिशति शय्यापरीषहसहोऽस्मृतहंसतूल, प्रायोऽविषादमचलनियमान्मुहूर्तम् । आवश्यकादिविधिखेदनुदे गुहादौ, यस्रोपलादिशबले शववच्छयीत ॥ ९९ ॥ शयीत स्वप्यात् । कोसौ ? शय्यापरीषहसहः ।क ? गुहादौ गुहागह्वरादौ । किंविशिष्टे ? यस्रोपलादिशबले त्रिकोणपाषाणशर्कराकर्पराद्याकीर्णे । कथम् ? मुहूर्त घटिकाद्वयम् । कस्यै ? आवश्यकादिविधिखेदनुदे । आवश्यकमादिर्यस्य स्वाध्यायादेस्तदावश्यकादि । तस्य विधिर्विधानम् । तस्माज्जातः खेदः । तस्य नुद् नोदनं निराकरणं, तस्यै । किंवत् ? शववत् परिवर्तनरहितत्वान्मृतकेन तुल्यम् । किंविशिष्टः ? अस्मृतहंस. तूलप्रायः । हंसतूलमादिर्यस्य दुकूलास्तरणादेस्तद्धंसतूलप्रायम् । अस्मृतं हंसतूलप्राय येन स एवम् । पुनः किं कुर्वन् ? अचलन् अप्रच्यवमानः । कस्मात् ? नियमाद् एकपार्श्वदण्डायतादिशयनप्रतिज्ञानात् । केन ? अविपादं 'व्याघ्रादिसंकुलोयं प्रदेशः अचिरादतो निर्गमनं श्रेयः, कदा नु रात्रिविरमति' इति विषादाभावेन । आक्रोशपरीषह जिष्णुं व्याचष्टेमिथ्यादृशश्चण्डदुरुक्तिकाण्डैः, प्रविध्यतोऽरूंषि मृधं निरोद्धुम् । क्षमोपि यः क्षाम्यति पापपार्क, ध्यायन खमाक्रोशसहिष्णुरेषः ॥ १० ॥ एष साधुराक्रोशसहिष्णुराक्रोशपरीषहसहनशीलः स्यात् । यः किम् ? यः शाम्यति सहते । किं कुर्वन् ? ध्यायन भावयन् । कम् ? पापपाकमशुभकर्मोदयम् । किंविशिष्टम् ? स्वमात्मीयम् । किंविशिष्टोपि ? क्षमोपि समर्थोपि । किं कर्तुम् ? निरोद्ध निषेधुं । कान् ? मिथ्यादृशो वामदृष्टीन् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy