________________
४५६
अनगारधर्मामृते
क्षोणीमटन् गुणरसादपि कण्टकादि,
कष्टे सहत्यनधियन् शिबिकादि चर्याम् ॥ ९७॥ सहति क्षमते । कोसौ ? साधुः । काम् ? चयाँ संचरणपरीषहम् । किं कुर्वन् ? अनधियन् अस्मरन् । किं तत् ? शिबिकादि पूर्वानुभूतयाप्य. यानवाहनादिगमनम् । क सति ? कण्टकादिकष्टेपि कण्टक आदिर्येषां परुषशर्करामृत्कण्टकादीनां ते कण्टकादयः । तेषां कष्टे कृच्छ्रेपि। किं कुर्वन् ? बिभ्यत त्रस्यन् । कस्मात् ? भवात् संसारात् । तथा निरूढब्रह्मवतश्रुतशमः । निरूढाः प्रकर्ष प्राप्ता ब्रह्मवतश्रुतशमा ब्रह्मचर्यशास्त्रज्ञानोपशमा यस्य स एवम् । किं कृत्वा ? उपास्य सेवित्वा । कान् ? गुरून धर्माचार्यादीन् । कथम् ? चिरं बहुतरकालम् । तथा अटन् विहरन् । काम् ! क्षोणी पृथ्वीम् । कसात् ? गुणरसाद् दर्शनविशुद्ध्यायनुरागात् । कया? तदनुज्ञया गुरूणामभ्यनुज्ञया । किं विशिष्टः सन् ? एकोऽसहायः। निषद्यापरीषहं लक्षयति
भीष्मश्मशानादिशिलातलादौ, विद्यादिनाऽजन्यगदाधुदीर्णम् ।. शक्तोपि भङ्क्तुं स्थिरमङ्गिपीडां,
त्यक्तुं निषद्यासहनः समास्ते ॥ ९८ ॥ समास्ते समाधिना वीरासनाधन्यतमकायोत्सर्गेण तिष्ठति । न चलतीत्यर्थः । कोसौ ? निषद्यासहनः निषधापरीषहसहिष्णुः। किं कर्तुम् ? त्यक्तुं परिहर्तुम् । काम् ? अङ्गिपीडाम् प्राणिबाधाम् । कथं कृत्वा ? स्थिरं निश्चलम् । किंविशिष्टोपि ? शक्तोपि समर्थोपि । किं कर्तुम् ? भन्तुं नाशयितुम् । किंविशिष्टम् ? उदीर्णमुद्भूतम् । किं तत् ? अजन्यगदादि उपसर्गव्याधिप्रभृति । केन ? विद्यादिना विद्यामन्त्रौषधादिना । क स्थितः । भीष्मेत्यादि । भीष्मं च भयंकरं तत् श्मशानादि च प्रेतवनारण्यशून्यायत. नगिरिगुहागह्वरादि । तत्र शिलातलादि । शिलातलमादिर्यस्य स्थण्डिलप्रदेशादेस्तन्न।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org