SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। साधुः ? स्वात्मोन्मुखः स्वस्वरूपाभिमुखः । पुनः किंविशिष्टः? पृतिविशेषेण विशिष्टसंतोपेण हृता अपनीता इन्द्रियार्थतृष्णा विषयाभिलाषो येन सोयं धृतिविशेषहृतेन्द्रियार्थतृष्णः । न चक्षुरादीनां सर्वेषामरतिहेतुत्वात्पृथगरतिग्रहणमयुक्तं, कदाचित् क्षुधाद्यभावेपि कर्मोदयात्संयमे. ऽरतिरुपजायते। स्त्रीपरीषहसहनमुपदिशति रागाद्युपप्लुतमतिं युवतीं विचित्रां-, श्चित्तं विकर्तुमनुकूल विकूलभावान् । संतन्वती रहसि कूर्मवदिन्द्रियाणि, संवृत्य लघ्वपवदेत गुरूक्तियुक्त्या ॥ ९६ ॥ अपवदेत निराकुर्यात्साधुः । काम् ? युवती तरुणीम् । किंविशिष्टाम् । रागाद्युपप्लुतमति रागद्वेषयौवनदर्परूपमदविभ्रमोन्मादमद्यपानावेशाधुपहतबुद्धिम् । पुनः किं कुर्वतीम् ? संतन्वती सातत्येन कुर्वतीम् । कान् ? अनुकूलविकूलभावान् । अनुकूला लिङ्गहर्षणालिङ्गनजघनप्रकाशनभ्रूविभ्रमादयः । विकूला लिङ्गकदर्थनोपहसनताडनावघटनादयः । अनुकूलाश्च विकूलाश्चानुकूलाः । ते च भावाश्च मानसविकारास्तान् । किंविशिष्टान् ? विचित्रान् विविधान् । किं कर्तुम् ? विकतु दूषयितुम् । किं तत् ? चित्तं साधोर्मनः । क ? रहसि एकान्ते । कयाऽपवदेत ? गुरूक्तियुक्त्या गुरुवचनप्रणिधानेन । कथम् ? लघु शीघ्रम् । किं कृत्वा ? संवृत्त्य अन्तः प्रवेश्य । कानि ? इन्द्रियाणि चक्षुरादीनि । किंवत् । कूर्मघत् कच्छपेन तुल्यम् । स्त्रीदर्शनस्पर्शनालापाभिलाषादि निरुत्सुकस्य तदक्षिवक्त्रभ्रूविकाररूपगतिहासलीलाविजृम्भितपीनोन्नतस्तनजघनोरुमूलकक्षानाभिनिरीक्षणादिभिरविप्लुतचेतसस्त्यक्तवंशगीतादिश्रुतेः स्त्रीपरीषहजयः स्यादित्यर्थः । चर्यापरीषहसहनमन्वाचष्टे बिभ्यद्भवाचिरमुपास्य गुरूनिरूढ,ब्रह्मत्रतश्रुतशमस्तदनुज्ञयैकः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy