SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ४५४ अनगारधर्मामृते अरतिपरीषहजयोपायमाह लोकापवादभयसतरक्षणाक्ष,रोधक्षुदादिभिरसह्यमुदीर्यमाणाम् । खात्मोन्मुखो धृतिविशेषहृतेन्द्रियार्थ, तृष्णः शृणात्वरतिमाश्रितसंयमश्रीः ॥१५॥ शृणातु हिनस्तु । कोसौ ? आश्रितसंयमश्रीरालिङ्गितसंयमसंपत् । दृष्टश्रुतानुभूतरतिस्मरणकथाश्रवणरहित इत्यर्थः। काम् ? अरतिं शयनासनादावेकवानवस्थानम् । किं क्रियमाणाम् ? उदीर्यमाणामुद्भवन्तीम् । कथं कृत्वा ? असह्य दुःसहम् । कैः ? लोकेत्यादि । लोकस्यापवाद उपक्रोशो लोकापवादः तस्माद्यं भीतिः । यद्वाह्या अप्याहुः सन्तः सच्चरितोदयव्यसनिनः प्रादुर्भवद्यन्त्रणाः, सर्वत्रैव जनापवादचकिता जीवन्ति दुःखं सदा । अव्युत्पन्नमतिः कृतेन न सता नैवासताप्याकुलो, युक्तायुक्तविवेकशून्यहृदयादन्यो जनःप्राकृतः॥ उक्तं चविपद्युच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिर्मलिनमसुभङ्गेप्यसुकरम् । असन्तो नाभ्या सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ तथा, आर्द्रसन्तानता त्यागः कायवाक्चेतसां दमः। स्वार्थबुद्धिः परार्थेषु पर्याप्तमिति सद्रतम् ॥ इत्यस्य सद्रतस्य रक्षणं रक्षा सद्रतरक्षणम् । अक्षरोध इन्द्रियजयः ? क्षुधा बुभुक्षा आदिर्येषां पिपासादीनां ते क्षुधादयः। लोकापवादभयं च सद्रतरक्षणं चाक्षरोधश्च क्षुधादयश्च, तैः । किंविशिष्टः सन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy