SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। ४५३ दंशमशकसहनमाहदंशादिदंशककृतां बाधामघजिघांसया। निःक्षोभं सहतो दंशमशकोर्मीक्षमा मुनेः ॥ ९३ ॥ भवति । कासौ ? दंशमशकोर्मीक्षमा दंशमशकपरीषहसहनम् । कस्य ? मुनेोगिनः । किं कुर्वतः ? सहतः सहमानस्य । काम् ? बाधाम् । किंविशिष्टाम् ? दंशादिदंशककृताम् । दंश आदिर्येषां मशकमक्षिकापिशुकपुत्तिकामत्कुणकीटपिपीलिकावृश्चिकादीनां ते दंशादयः । ते च ते, दशन्ति व्यथयन्तीति, दंशकाः क्षुद्रप्राणिनो, दंशादिदंशकाः । तैः कृताम् । काकेभ्यो रक्ष्यतां सर्पिरित्यादिवद्धि सर्वोपघातोपलक्षणार्थ दंशमशकोभयग्रहणम् । कया ? अघजिघांसया अशुभकर्मविपाकहननेच्छया । कथं कृत्वा ? निःक्षोभमचलितचित्तम् । निर्जितनाग्न्यपरीषहमृर्षि लक्षयतिनिर्ग्रन्थनिर्भूषणविश्वपूज्यनाग्न्यव्रतो दोषयितुं प्रवृत्ते । चित्तं निमित्त प्रबलेपि यो न स्पृश्येत दोषैर्जितनाग्न्यरुक् सः __ भवति । कोसौ ? स साधुः । किंविशिष्टः ? जितनान्यरुग निर्जितदिगम्बरत्वपरीषहः । यः किम् ? यो न स्पृश्येत नाश्लिष्येत । कैः ? दोषै रागद्वेषादिभिः। क सति ? निमित्त वामदृष्टिशापाकर्णनकामिन्यालोकनादौ कारणे । किंविशिष्टे ? प्रबलेपि अशक्यप्रति विधानेपि । पुनः किंविशिष्टे ? प्रवृत्ते व्यापृते । किं कर्तुम् ? दोषयितुं विकृति नेतुम् । किं तत् ? चित्तं साधोर्मनः । किंविशिष्टः सन् ? निर्ग्रन्थेत्यादि । ग्रन्थादस्वादिपरिग्रहानिष्क्रान्तं निर्ग्रन्थम् । भूषणात्कटककुण्डलादेर्निष्क्रान्तं निर्भूषणम् । विश्वस्मिन् जगति पूज्यं विश्वपूज्यम् । निग्रन्थं च तमिभूषणं च तद्विश्वपूज्यं, च तत् निग्रंथनिर्भूषणविश्वपूज्यं तच्च तन्नान्यं च नग्नत्वम् । तदेव व्रतं प्रतिज्ञा यस्य स एवम् । उक्तं च-- वत्थाजिणवक्केण व अहवा पत्ताइणा असंवरणे । णिभूसणणिग्गंथं अञ्चलकं जगदि पुजम् ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy