________________
४५२
अनगारधर्मामृते
दुरन्ताश्चिरकालभाविनीः । नरके महाशीतबाधाश्चिरकालभाविन्यः परतन्त्रेण मया परिषोढाः । तदपेक्षया कियच्छीतमिदमिति भावनापरिणतः सहते इत्यर्थः ।
उष्णपरीषहपरिसहममाहअनियतविहतिवनं तदात्वज्वलदनलान्तमितः प्रवृद्धशोषः । तपतपनकरालिताध्वखिन्नः स्मृतनरकोष्णमहार्तिरुष्णसाट्स्यात्
स्यात् । कोसौ ? संयतः । किंविशिष्टः ? उष्णसाट् । उष्णं सहते विचे विपि प्राग्दीर्घः । स्यात् । किंविशिष्टः संयतः ? अनियतविहतिः अनियता एकत्रानवस्थिता विहृतिविहारो यस्य स एवम् । पुनः किंविशिष्टः ? इतो गतो । किं तत् ? वनमरण्यम् । कीदृशम् ? तदात्वज्व. लदनलान्तम् । तदात्बे एव प्रवेशक्षणे एव ज्वलन् दीप्यमानोऽनलोग्निरन्तेषु पर्यन्तेषु यस्य तत् । पुनरपि किंविशिष्टः ? प्रवृद्धशोषः । प्रवृद्धः प्रकर्ष प्राप्तः शोषः सौम्यधातुक्षयो मुखशोषश्च यस्य स एवम् । पुनरपि किंविशिष्टः ? तपेत्यादि । तपस्य ग्रीष्मस्य तपन आदित्यस्तपतपनः । तेन करालितः प्रज्वलितोऽध्वा मार्गः। तेन खिन्नः खेदं गतः। किंभूतो भूत्वा उष्णं सहते ? स्मृतनरकोष्णमहार्तिः। महती अतिः पीडा महार्तिः । नरके उष्णस्य महातिर्नरकोष्णमहार्तिः। स्मृता ध्याता नरकोष्णमहार्तिर्यन स एवम् । नरकेष्वत्युष्णशीते यथा,
षष्ठसप्तमयोः शीतं शीतोष्णं पञ्चमे स्मृतम् ।
चतुर्वत्युष्णमायेषु नरकेविति भूगुणाः ॥ इति चतसृषु भूषु पञ्चम्याश्च त्रिषु चतुर्भागेपूष्णनरकाणि ८२२५०००। शीतनरकाणि शेषोणि १७५०००।
१-८२२५००० पञ्चविंशतिसहस्राधिकळ्यशीतिलक्षाण्युष्णनरकाणि, पञ्चसप्ततिसहस्राधिकैकलशं शीतनरकाणि मिलित्वा चतुरशीतिल० ८४००००० नरकाणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org