________________
षष्ठोऽध्यायः।
४५१
शिष्टः ? यथालब्धाशी यथाप्राप्ताशनवतः यथालब्धमश्नातीत्येवंवतः "व्रताभीक्ष्ण्ययोश्च" इति णिन् । कस्माजयेत् ? संतोषोदघकरीरप्ररितवरध्यानाम्बुपानात् । संतोपो तिः । उद्घकरीरो माघमासिकाभिनवघटः । उद्घः प्रशस्त: करीरो घट उद्घकरीरः । संतोष एवोद्घकरीरः संतोषोद्घकरीरः । तत्र तेन वा पूरितं पूर्णीकृतं वरध्यानं धर्म्यशुक्लाख्यमेवाम्बु जलम् तस्य पानात् । शीतपरीषहनिग्रहोपायमाहविष्वक्चारिमरुच्चतुष्पथमितो धृत्येकवासाः पत,त्यन्वङ्गं निशि काष्ठदाहिनि हिमे भावांस्तदुच्छेदिनः । अध्यायन्नधियनधोगतिहिमान्यर्तीर्दुरन्तास्तपो,बर्हिस्तप्तनिजात्मगर्भगृहसंचारी मुनिर्मोदते ॥ ९१ ॥ मोदते आनन्दमनुभवति । कोसौ ? मुनियोंगी । किंविशिष्टः सन् ? तपोबर्हिस्तप्तनिजात्मगर्भगृहसंचारी । रत्नत्रयाविर्भावार्थमिच्छानिरोधस्तपः । तदेव बर्हिरग्निः । तेन तप्तमुष्णीकृतं निशात्मैव स्वात्मैव गर्भगृहं वासगृहं तपोबर्हिस्तप्तनिजात्मगर्भगृहम् । तत्र संचारी संचरणशील: तदवस्थायीत्यर्थः । किंविशिष्टो मुनिः ? इतो गतः । किं तत् ? चतुष्पर्थ शृङ्गाटकम् । कीदृशम् ? विष्वक्चारिमरुत् समताचरणशीलपवनम् । पुनः किंविशिष्टः ? धृत्येकवासाः । धृतिः संतोष एकं केवलं वासो वसनं यस्य स एवम् । पुनरपि किंविशिष्टः ? अध्यायन् अस्सरन् । कान् ? भावान् पदार्थान् । किंविशिष्टान् ? तदुच्छेदिनः पूर्वानुभूतान् शीतापनोदिनो गर्भगृहदीप्ताङ्गारगन्धतैलकुङ्कुमादीन् । क सति ? हिमे तुषारे। किं कुर्वति ? पतति । कथम् ? अन्वङ्गमङ्गमङ्गं प्रति । पुनः किंविशिष्टे ? काष्ठदाहिनि दारुदहनशीले । कस्याम् ? निशि रात्रौ । किं कुर्वन्नसौ तच्छीतं सहते ? अधियन स्मरन् । काः ? अधोगतिहिमान्यतः। महद्धिमं हिमानी । अधोगतो नरके हिमानी अधोगतिहिमानी । तस्या अर्तीः पीडाः । नरकमहातिशीतदुःखानीत्यर्थः । किंविशिष्टाः ?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org