________________
४५०
अनगारधर्मामृते
वश्यक क्रियाः षट्कर्मी परमा प्रकृष्टा आदृतिरादरः प्रयत्नो यस्य स एवम् । पुनः किंविशिष्टस्य ? अनशनाद्याप्तक्रशिनः अनशनादिभिर्बाह्य तपोनुठानैराप्तः सः प्राप्तः कृशिमा कृशत्वं क्षामत्वं येन स एवम् । क्व सति ? क्षुदनले क्षुद्वाधानौ । किं कुर्वति ? दिधक्षति दग्धुमिच्छति । दग्धुं प्रवृत्ते इत्यर्थः । कान् ? असून् प्राणान् । कथम् ? अरं शीघ्रम् । यद्वैद्या:I
Hams
आहारं पचति शिखी दोषानाहारवर्जितः पचति । दोषक्षये च धातून् पचति च धातुक्षये प्राणान् ॥
कस्मात् ? अलाभादप्राप्तेः । कस्य ? अशनस्य भोजनस्य । कथम् ? चिरमपि बहुतरकालमपि । संवत्सरं यावदित्यर्थः ।
तृष्णापरीषह तिरस्कारार्थमाह-
पत्रीवानियतास नोदवसितः स्नानाद्यपासी यथा, - लब्धाशी क्षपणाध्वपित्तकृदवष्वाणज्वरोष्णादिजाम् । तृष्णां निष्कुषिताम्बरीषदहनां देहेन्द्रियोन्माथिनीं, संतोषोद्धकरीर पूरितवरध्यानाम्बुपानाजयेत् ॥ ९० ॥
जयेद् निगृह्णीयात्संयतः । काम् ? तृष्णां पिपासाम् । किंविशिष्टाम् ? देहेन्द्रियो माथिनीं शरीरस्याक्षाणां च कदर्थनशीलाम् । पुनः किंविशिष्टाम् ? निष्कुषिताम्बरीषदहनां निर्जितभ्राष्ट्रानं यतः । पुनरपि किंविशिष्टाम् ? क्षपणाध्वपित्तकृदवष्वाणज्वरोष्णादिजाम् । क्षपणमुपवासः । अध्वा मार्गचलनम् । पित्तकृदवष्वाणः पित्तकराहारः कट्वम्ललवणादिः । ज्वरः संतापात्मव्याधिः उष्णो ग्रीष्मः | आदिशब्दान्मरुदेशा दिः । क्षपणं चाध्वा च पित्तकृदवष्वाणश्च ज्वरश्श्रोष्णश्च ते आदयो येषां ते क्षपणादयः । तेभ्यो जाताम् । किंविशिष्टः संयतः ? अनियतासनोदव सितः । आसनमुपवेशनम् । उदवसितं गृहम् । आसनं चोदवसितं चास नोदवसिते । अनियते अनवस्थिते आसनोदवसिते यस्य स एवम् क इव ? पत्रीव पक्षी यथा । पुनः किं विशिष्टः ? स्नानाद्यपा सी अभिषेकावगाह परिपेकशिरोले पाद्युपचारपरिहारी | पुनरपि किं वि
g
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org