________________
षष्टोऽध्यायः।
४४९
इत्यर्थः । तथा मोहांशक्षपणोल्वणीकृतबलः। मोहांशानां चारित्रमो. हैकदेशानां क्षपणं क्षयः । तेनोल्वणीकृतमुत्कटीकृतं बलं सामर्थ्य येन स एवम् । अपूर्वकरणादिगुणस्थानवर्तीत्यर्थः। तथा निःसाम्परायं स्फुरन् निःसाम्परायं लोभाभावेन स्फुरन् द्योतमानः । क्षीणमोह इत्यर्थः । तथा शुक्लध्यानकुठारकृत्तबलवकर्मद्रुमूलः । शुक्लध्यानमेकत्ववितर्कावीचाराख्यमत्र ग्राह्य, पृथक्त्ववितर्कवीचारास्यस्य तस्यापूर्वकरणादिषु त्रिषु गुणस्थानेषु निवृत्तत्वात् । बलवकर्माणि ज्ञानदर्शनावरणान्तरायसंज्ञान्यघातिकर्मापे. क्षयात्र गृह्यन्ते । शुक्लध्यानमेव कुठारः परशुः। तेन कृत्तानि-च्छिन्नानि बलवत्कर्माण्येव द्रुमूलानि वृक्षबुना येन स एवम् । जीवन्मुक्त इत्यर्थः ।
सोढाशेषपरीषहत्त्वविशेषणं व्याकर्तुकामस्तावत् क्षुत्परीषहविजयविधानार्थमाह
षट्कर्मीपरमादृतेरनशनाद्याप्तकृशिनोऽशन,स्यालाभाच्चिरमप्यरं क्षुदनले भिक्षोर्दिधक्ष्यत्यमन् । कारापञ्जरनारकेषु परवान् योऽभुक्षि तीवाः क्षुधः, का तस्यात्मवतोऽद्य मे क्षुदियमित्युज्जीव्यमोजो मुहुः॥८९।। उजीव्यमुद्दीप्यम् । किं तत् ? ओज उत्साहो धातुतेजो वा। कस्य ? मिक्षोभिक्षान्नवृत्तेः । संयतेनेत्यर्थः। कथम् ? मुहुर्वारंवारम् । कथम् ? इति । किमिति ? का वर्तते, न कापि । कासौ ? इयमनुभूयमाना क्षुत् बुभुक्षावेदना । कस्य ? मे मम । किंविशिष्टस्य ? तस्यात्मवत आत्मायजस्य । क ? अद्य अधुना । यः किमकर्षम् ? योऽभुक्षि भुक्तवानहम् । काः ? क्षुधः क्षुद्वेदनाः । किंविशिष्टाः ? तीव्राः असह्यतमाः। किंविशिष्टः सन् ? परवान् परायत्तः । केषु ? कारापञ्जरनारकेषु । कारा वन्दिकुटी। मनुष्यं प्रत्येषा । शेषौ तैर्यग्नैरयिको प्रति । कारा च पञ्जरं च पक्षिगृहं नारकश्च नरकः कारापञ्जरनारकास्तेषु । मनुष्येषु वन्दिकुट्यां, तिर्यक्षु पअरे श्वभ्रेषु च नरके परायत्तः सन् यस्तीवाः क्षुद्वाधाः सोढवानहम् । तस्यात्मायत्तस्य सांप्रतं मम का क्षुदियम् । न कापीत्यर्थः। किंविशिष्टस्य भिक्षोः ? षट्कर्मीपरमादृतेः। षण्णां कर्मणां समाहारः षट्कर्मी षडा
अन०प० २९
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org
ww