________________
अनगारधर्मामृते--
निमित्तकरसहपीडाविशेषैः । किं कुर्वद्भिः ? आपतद्भिरागच्छद्भिः । केन ? क्रियासममिहारेणापि अतिमात्रेण पौनःपुन्येन वा। न केवलं मनाग, भनभ्यावश्या वा इत्यपि शब्दार्थः ।
प्रागेवःभ्यस्तसमस्तपरीषहजयस्य महासत्त्वस्य क्रमक्षपितघात्यघातिकर्मणो लोकाग्रचूडामणित्वमुदृणाति
सोढाशेषपरीषहोऽक्षतशिवोत्साहः सुदृग्वृत्तभाग, मोहांशक्षपणोल्बणी कृतबलो निस्सापरायं स्फुरन् । शुक्लध्यानकुठारकृत्तबलवत्कर्मद्रुमूलोऽपरं, ना प्रस्फोटितपक्षरेणुखगवद्यात्यूर्वमऽस्त्वा रजः ॥८८॥ याति गच्छति । कोसौ ? ना द्रव्यतः पुमानेव । क याति । ऊध्र्व लोकाने । किं कृत्वा ? अस्त्वा व्युपरतक्रियानिवृत्तिलक्षणशुक्लध्यानेन क्षित्वा । किं तत् ? रजो रज इव रेणुरिव रजः स्वरूपोपघातपरिहारेणैवोपश्लेषावस्थानात् । किंविशिष्टम् ? अपरं वेद्यायुर्नामगोत्ररूपमघाति कर्म । किंवत् ? प्रस्फोटितपक्षरेणु खगवत् पक्षयोः पतत्रयो-रेणू-रजः पक्षरेणुः । प्रस्फोटितोऽपनीतः पक्षरेणुर्येन स प्रस्फोटितपक्षरेणुः। स चासौ खगच पक्षी । तेन तुल्यम् । किंविशिष्टः सन् ? सोढाशेष. परीषहः सोढाः सह्यता नीता अशेषाः सर्वे परीषहाः क्षुधादयो येन स एवम् । सर्वपरीषहैरनभिभवनीय इत्यर्थः । पुनः किं विशिष्टः ? अक्षतशिवोत्साहः । अक्षतोनुपहतः प्रतिक्षणं वर्धमानः शिवोत्साहो मोक्षायोयोगो यस्य स एवम् । अप्रमत्तसंयत इत्यर्थः । तल्लक्षणं यथा,.. गंडासेसपमाओ वयगुणसीलोलिमंडिओ णाणी ।
अणुवमसमओ अखपओ झाणणिलीणोहु अपमत्तो॥ तथा सुदृग्वृत्तभाक् । सुदृग्वृत्ते क्षायिकसम्यक्त्वसामायिकाद्यन्यतमचारित्रे भजति सेवते तन्मयो भवतीति सुदृगवृत्तभाक् । क्षपक श्रेण्यारोहणोन्मुख
.१ नष्टाशेषप्रमादो वृतगुणशीलावलिमण्डितो ज्ञानी। ... अनुपशमकोऽक्षपको ध्याननिलीनः खलु अप्रमत्तः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org