________________
अनगारधर्मामृते
क्षुत्पिपासादिसहनाद्धि संवरे सत्यौपक्रमिकं कर्मफलमनुभवन् क्रमेण निर्जीर्णकर्मा मोक्षमवाप्नोति । स च परीषहजयः साध्यः साधयितुं शक्यः । कैः ? धीरैरकातरैः पुंभिः । कथम् ? परं केवलम् । कातराणां मनागपि साध्यो न भवतीत्यर्थः । बालव्युत्पत्यर्थं पुनस्तत्सामान्यलक्षणं प्रपञ्चयति
शारीरमानसोत्कृष्टबाधहेतून क्षुदादिकान् ।
प्राहुरन्तर्बहिर्द्रव्यपरिणामान् परीषहान् ॥ ८४ ॥ प्राहुः प्रवदन्ति सूरयः । कान् ? परीषहान् । किंविशिष्टान् ? अन्त. बहिर्द्रव्यपरिणामान् । क्षुदादयोन्तव्यस्य जीवस्य परिणामाः। शीतोष्णादयो बहिर्द्रव्यस्य पुद्गलस्य च । इति यथासंभवं योज्यम् । अन्तश्च बहिश्चान्तर्बहिः अन्तरङ्गबहिरङ्गे । ते च ते द्रव्ये च यथासंख्यं जीवपुद्गलौ अन्तर्बहिर्द्रव्ये । तयोः परिणामा अवस्थाविशेषाः। पुनः किं विशिष्टान् ? क्षुदादिकान् क्षुत्पिपासाशीतोष्णादीन् । पुनरपि किंविशिष्टानू ? शारीरेत्यादि । शरीरे भवाः शारीराः । मनसि भवा मानसाः । बाधाः पीडाविशेषाः । उत्कृष्टाश्च ते बाधाश्च उत्कृष्टबाधाः । शारीराश्च मानसाश्च शारीरमानसाः। ते च ते उत्कृष्टबाधाश्च । तेषां हेतवः कारणानि कालत्रयेपि कार्यारम्भस्य सर्वेषां सप्रत्ययवायत्वात् ॥ .. विघ्नोपनिपातेपि श्रेयोर्थिभिः प्रारब्धश्रेयोन्मार्गान्नापसर्तव्यमिति शिक्षा. र्थमाह। स कोपि किल नेहाभून्नास्ति नो वा भविष्यति । .. यस्य कार्यमविघ्नं स्यान्न्याकार्यों हि विधेः पुमान् ॥ ८५ ॥ किलेति शास्त्रे लोके च श्रूयते । शास्त्रे यथा
"स किं कोपीहाभूदस्ति भविष्यति वा यस्याऽप्रत्यवायः कार्यारम्भ" इति । लोके यथा
"श्रेयांसि बहुविघ्नानि भवन्ति महतामपि" इति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org