________________
षष्ठोऽध्यायः।
इत्यभिप्रेत्य विशेषसंख्यागर्भ परीषहसामान्यलक्षणमाचक्षाणस्त जयाधिकारिणो निर्दिशति
दुःखे भिक्षुरुपस्थिते शिवपथाअश्यत्यदुःखश्रितात , तत्तन्मार्गपरिग्रहेण दुरितं रोढुं मुमुक्षुर्नवम् । भोक्तुं च प्रतनं क्षुदादिवपुषो द्वाविंशति वेदनाः, स्वस्थो यत्सहते परीषहजयः साध्यः स धीरैः परम् ॥८३॥ भ्रश्यति प्रच्यवति । कोसौ ? भिक्षुः संयमी। कस्मात् ? शिवपथादू मोक्षमार्गात् । किं विशिष्टात् ? अदुःखश्रिताद् अदुःखेन सुखेन श्रितात् सेवितात् । भावितादित्यर्थः । क सति ? दुःखे। किंविशिष्टे ? उपस्थिते संनिहिते । यत एवं तत् तस्मात् स भण्यते । कोसौ ? परीषहजयः। अस्य संयमतपोविशेषत्वादिहोपदेशः । उक्तं च
परिषोढव्या नित्यं दर्शनचारित्ररक्षणे नियताः। संयमतपोविशेषास्तदेकदेशाः परीषहाख्याः स्युः॥ यत्किम् ? यत्सहते संक्लेशं दैन्यं च विनानुभवति । कोसौ ? मुमुक्षुः। किंविशिष्टः सन् ? स्वस्थः स्वस्मिकर्मविविक्ते आत्मनि तिष्ठन् । काः? वेदनाः। वेद्यन्तेऽनुभूयन्तेऽसद्वेद्यादिकर्मोदयपरतन्त्रैः प्राणिभिरिति वेदना अन्तर्बहिर्द्रव्यपरिणामाः शारीरमानसप्रकृष्टपीडाहेतवः । किंविशिष्टाः ? क्षुदादिवपुषः क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशव्याक्रोशवधयाचनालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञानादर्शनस्वभावः । कति ? द्वाविंशतिम् । किं कर्तुम् ? रोर्बु निवारयितुम् । किं तत् ? दुरितं दुष्कृतम् । किंविशिष्टम् ? नवं प्रत्यग्रमपूर्वम् । न केवलं, भोक्तुं च निर्जरयितुम् । किं तत् ? दुरितम् । किंविशिष्टम् ? प्रतनं पुराणं प्रारबद्धम् । केन ? तन्मार्गपरिग्रहेण । तस्य शिवस्य मार्गः प्रायुपायस्तन्मार्गः । सद्ध्यानमिति यावत् । तस्य परिग्रहः स्वीकारस्तेन । उक्तं च
परीषहाद्यविज्ञानादास्रवस्य निरोधिनी । जायतेऽध्यात्मयोगेन कर्मणामाशु निर्जरा॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org