________________
४४४
अनगारधर्मामृते
त्यादि। उच्चैरुच्चैःपदेषु उन्नतोन्नतस्थानेषु नृपमहार्द्धकदेवचक्रिसुरेन्द्राहमिन्द्र. गणधरतीर्थकरत्वलक्षणेषु आशा प्राप्त्यभिलाषः, तां धरति तया वाऽधरो निन्द्यः, शुभाशुभकर्मबन्धनिबन्धनत्वात्, उच्चरुञ्चैःपदाशाधरः। स चासौ भवश्च संसारः । तस्य विधुरं दुःखम् । तदेवाम्भोधिः समुद्रः तस्य पारं परतीरम् । तस्याप्तिः प्राप्तिः । तया राजत् शोभमानं कायं कृतकृत्यता यस्य सोयमुच्चैरुच्चैःपदाशाधरभवविधुराम्भोधिपाराप्तिराजकार्ता
र्थ्यः । परममुक्तो भवन्नित्यर्थः । कृतोथा येन स कृतार्थः कृतकृत्यः । तस्य भावः काताय॑म् । उक्तं च
सर्वविवर्तीत्तीर्ण यदा स चैतन्यमचलमाप्नोति ।
भवति तदा कृतकृत्यः सम्यक्पुरुषार्थसिद्धिमापन्नः ॥ पुनः किंविशिष्टः ? पूतकीर्तिः। कीर्तिर्वाग्यशःस्तुति म वा । पूता पवित्रा अबाधिता कीर्तिर्वागू यस्य सोयं पूतकीर्तिः । जीवन्मुक्तो भूत्वेत्यर्थः। यशःस्तुतिनामपक्षे तु पूता पवित्रा उच्चारणमात्रेण पापापहारक्षमा कीर्तिर्यस्येति विग्रहः । यः किम् ? यो वेत्ति प्रतिपद्यते । कम् ? स्वमात्मानम् । केन? स्वयमात्मना स्वसंवेदनेन । क ? स्वे आत्मनि । किंविशिष्टः सन् ? अन्तःकरणकरणजिद् मनोक्षजेता। किं कुर्वाणः ? अनुप्रेक्षमाणो भावयन् । किं तत् ? यत्किचिदिष्टम् । कथम् ? अद्धा तत्त्वतः । केषु ? अ. ध्रुवादिषु । अनित्याशरणसंसारकत्वान्यत्वाशुच्यानवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्व ख्यातत्वेषु मध्ये । किंविशिष्टेषु ? इत्येवंप्रकारेषु एतेषु सन्निहितेषु । पुनः किंविशिष्टेषु ? द्विषेषु द्वादशसु । द्विः षट् इमानि द्विषाणि । "संख्येये संख्यया ह्यासन्नादूरसंख्यम्" इति बहुव्रीहिः । “संख्यावाड्डोsबहुगणात्" इति डः समासान्तः । वृत्यैवाभ्यावृत्तेरुक्तत्वात्सुचोऽप्रयोगः । तथा च शिष्टप्रयोगः, “यनेकद्विषभेदगम्" इति । किंविशिष्टः सन् ? प्रवचनदृक् परमागमचक्षुः । इति द्वादशानुप्रेक्षाप्रकरणम् । अथ
"अदुःखभावितं ज्ञानं क्षीयते दुःखसन्निधौ। तस्माद्यथावलं दुःखैरात्मानं भावयेन्मुनिः॥"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org