________________
षष्ठोऽध्यायः ।
सुखमचलमहिंसा लक्षणादेव धर्माद, भवति विधिरशेषोप्यस्य शेषोऽनुकल्पः । इह भवगहनेसावेव दूरं दुरापः, प्रवचनवचनानां जीवितं चायमेव ॥ ८१ ॥
भवति । किं तत् ? सुखम् । किंविशिष्टम् ? अचलमक्षयम् । कस्मात् ? धर्मात् । किंविशिष्टात् ? अहिंसालक्षणादेव “अप्रादुर्भावः खलु रागादीनां भवत्य हिंसेति " अहिंसा लक्षणं स्वरूपं यस्य । सोयं भवति । कोसौ ? विधिः सत्यवचनादिः । किंविशिष्टः ? शेषोऽन्यः । किंविशिष्टो भवति ? अनुकल्पः । अनुगतं द्रव्यभावाभ्यामहिंसकत्वं कल्पयति समर्थयते । तदनुयायीत्यर्थः । कस्य ? अस्य अहिंसालक्षणस्य धर्मस्य । किं कियानू ? न । इत्याह- अशेषोपि समग्रोपि । इह चास्मिन्भवगहने संसारारण्ये भवत्यसावेव । किंविशिष्टः ? दुरापो दुर्लभः । कथम् ? दूरमत्यर्थम् । भवति चायमेव । किंविशिष्टः ? जीवितं प्राणाः । केषाम् ? प्रवचनवचनानां सिद्धान्तवाक्यानाम् । एवं भावयतः सदा धर्मानुरागो भवति । इति धर्मस्वाख्यातत्वानुप्रेक्षा ।
४४३
अथानित्यताद्यनुप्रेक्षाणां यां कांचिदिष्टामनुध्याय निरुद्धेन्द्रियमनःप्रसरस्यात्मनात्मन्यात्मनः संवेदनात् कृतकृत्यतामापन्नस्य जीवन्मुक्तिपूर्विकांपरममुक्तिप्राप्तिमुपदिशति -
इत्येतेषु द्विषेषु प्रवचनहगनुप्रेक्षमाणोऽश्रुवादि वद्धा यत्किचिदन्तः करणकरणजिद्वेत्ति यः स्वं स्वयं स्वे । उच्चैरुच्चैःपदाशाधरभवविधुराम्भोधिपाराप्तिराजकार्ताः पूतकीर्तिः प्रतपति स परैः स्वैर्गुणैर्लोकमूर्ध्नि ८२
प्रतपति प्रकर्षेण दीप्यते । कोसौ ? स आत्मा । क्व ? लोकमूर्ध्नि त्रैलोक्यशिरसि । कै: ? गुणैः सम्यक्त्वादिभिः । किंविशिष्टैः ? स्वैः सिद्धात्मसंबन्धिभिः । पुनः किंविशिष्टैः ? परैरुत्कृष्टैः । किं विशिष्टः सन् ? उच्चैर
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org