________________
४४२
अनगारधर्मामृते
संपत्तिः कृच्छ्रलभ्या । एवं कृच्छ्रलभ्यं धर्ममवाप्य विषयसुखभावो विरक्तविषयस्य तपोभावना धर्मप्रभावना सुखमरणादिरूपसमाधिश्च दुर्लभः । तस्मिन्सति बोधिलाभः फलवान् भवति । इति चिन्तनं बोधिदुर्लभानुप्रेक्षेति ।" एवं चिन्तयतो बोधिं प्राप्य न प्रमादो भवति। इति बोधिदुर्लभानुप्रेक्षा।
अथ केवलिप्रज्ञप्तत्रैलोक्यैकमङ्गललोकोत्तमस्य धर्मस्याविर्भावमाशंसतिलोकालोके रविरिव करैरुल्लसन् सत्क्षमायैः, खद्योतानामिव घनतमोद्योतिनां यः प्रभावम् । दोषोच्छेदप्रथितमहिमा हन्ति धर्मान्तराणां, स व्याख्यातः परमविशदख्यातिभिः ख्यातु धर्मः ॥ ८॥
ख्यातु प्रकटीभवतु । कोसौ ? स धर्मः चतुर्दशगुणस्थानानां ग. त्यादिषु चतुर्दशमार्गणास्थानेषु स्वतत्वविचारणलक्षणो वस्तुयाथात्स्यरूपो वा । किंविशिष्टः ? स्वाख्यातः शोभनं सम्यगुक्तः । व्यवहारनिश्चयाभ्यां व्यवस्थापित इत्यर्थः । कैः ? परमविशदख्यातिभिरुत्कृष्टाशेषविशेषस्फुटप्रकाशन निष्ठज्ञानैः। सर्वज्ञैरित्यर्थः । यः किम् ? यो हन्ति तिरस्करोति । कम् ? प्रभावं माहात्म्यम् । केषाम् ? धर्मान्तराणां वेदाधुक्तधर्माणाम् । किंविशिष्टानाम् ? घनतमोद्योतिनां घने निबिडे तमसि मिथ्यात्वे द्योतनशीलानाम् । केषामिव ? खद्योतानामिव ज्योतिरिङ्गणानामिव । किं विशिष्टानाम् ? घनतमोद्योतिनां घनेऽन्धकारे द्योतनशीलानाम् । किं विशिष्टोसौ ? दोषोच्छेदप्रथितमहिमा। दोषा रागादयो दोषा च रात्रिः दोषोच्छेदेन प्रथितः प्रख्यातो महिमा माहात्म्यं यस्य सोऽयम्। किं कुर्वन् ? उल्लसन् प्रकाशमानः । कैः ? सत्क्षमाद्यैरुत्तमक्षमामार्दवा दिभिः । क इव कैः ? रविरिव करैः सूर्यो यथा रश्मिभिः । क्व ? लोका लोके भव्यजनान्तर्दृष्टौ चक्रवालगिरौ च । . संप्रत्यहिंसैकलक्षणस्य धर्मस्याक्षयसुखफलत्वं दुर्लभत्वं समग्रशब्दब्रह्म प्राणत्वं च प्रकाशयन्नाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org