________________
षष्ठोऽध्यायः।
४४१
दुर्लभबोधेः प्रमादात्क्षणमपि प्रच्युतायास्तत्क्षणबद्धकर्मविपक्तिमक्लेशसंक्केशवेदनावशस्य पुनर्दुलभतरत्वं चिन्तयतिदुष्प्रापं प्राप्य रत्नत्रयमखिलजगत्सारमुत्सारयेयं, नो चेत्प्रज्ञापराधं क्षणमपि तदरं विप्रलब्धोक्षधृतैः । तत्किंचित्कर्म कुर्यां यदनुभवभवत्क्लेशसंक्लेशसंविद्, बोधेर्विन्देय वार्तामपि न पुनरनुप्राणनास्याः कुतस्त्याः ।।७९॥
नोचेद्यदि नोत्सारयेयं दूरीकुर्यामहम् । कम् ? प्रज्ञापराधं प्रमादाचरणम् । कथम् ? क्षणमप्यल्पकालमपि । किं कृत्वा ? प्राप्य लब्ध्वा । किं तत् ? रत्नत्रयं सम्यग्दर्शनादित्रयम् । किंविशिष्टम् ? दुष्प्रापं दुःखेन लभ्यम् । पुनः किंविशिष्टम् ? अखिलजगत्सारं सर्वलोकोत्तमम् । उक्तं च
ज्ञातमप्यात्मनस्तत्त्वं विविक्तं भावयन्नपि ।
पूर्वविभ्रमसंस्काराभान्ति भूयोपि गच्छति ॥ तत् तस्मात्प्रज्ञापराधाद्धेतोः कुर्या विदध्यामहम् । किं तत् ? किंचिद् दारुणं तत्कर्म । किंविशिष्टः सन् ? विप्रलब्धो वञ्चितः । कैः ? अक्षधूर्तेरिन्द्रियैरिव वञ्चनाप्रधानत्वात् । कथम् ? अरं शीघ्रम् । यदनुभवभवतक्लेशसंक्लेशसंविदहं नविन्देयं न लभेयम् । काम् ? वार्तामपि प्रवृ. त्तिमपि न केवलं स्वरूपलाभमित्यपिशब्दार्थः । कस्याः ? बोधेः । क्लेशा अवियास्सितारागद्वेषाभिनिवेशाः । संक्लेशाः सुखदुःखोपभोगविकल्पाः । क्लेशाच संक्लेशाश्व केशसंक्केशाः । तेषा संवित् संवित्तिः क्लेशसंक्लेशसंवित्। यस्य कर्मणोऽनुभवो विपाको यदनुभवः तस्माद्भवन्ती जायमानाः केशसंक्लेशसंविदू यस्य सोहं बोधेर्वार्तामपि न प्राप्नुयामित्यर्थः । कथम् ? पुनर्भूयः । कुतस्त्या कुतो भवा । कासौ ? अनुप्राणना पुनरुज्जीवना। कस्याः ? अस्या बोधेः। न कश्चिद्बोधिः प्राप्यत इत्यर्थः । उक्तं च
"एकनिगोदशरीरे जीवाः सिद्धानन्तगुणाः । एवं सर्वलोको निरन्तरं स्थावरैर्निचितः। अतस्त्रसतापञ्चेन्द्रियत्वमनुष्यत्वदेशकुलेन्द्रियारोग्यसद्धर्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org