________________
४४०
अनगारधर्मामृते
aamanand
च्छिन्दन् । किं तत् ? परं परद्रव्यं स्पर्शप्रधानम् । केन ? एकेन खेनेन्द्रियेण । स्पर्शनेनेत्यर्थः । खैरिति वचनपरिणामेण संबन्धः । एवमुत्तरत्रापि नैर्यायिकसमन्वयश्चिन्त्यः । किंविशिष्टः सन् । स्वानभिज्ञ आत्मज्ञानपराङ्मुखः। तथा जातोहमत्र दीर्घमसकृजातु कदाचित् । किं कुर्वन् ! अभिजानन् । किं तत् ? परं स्पर्शरसप्रधानं परद्रव्यम् । काभ्याम् ? द्वाभ्यां खाभ्यां स्पर्शनरसनाभ्याम् । व? घनतमसि कृम्यादिस्थाने । किंविशिष्टः सन् ? स्वानभिज्ञः । तथा जातोहमत्र दीर्घमसकृत्कदाचित् । किं कुर्वन् ? अभिजानन् । किं तत् ? परं परद्रव्यं स्पर्शरसगन्धप्रधानम् कैः ? त्रिभिः खैः स्पर्शनग्सनघ्राणैः । क ? घनतमसि पिपीलिकादिस्थाने । किंविशिष्टः सन् ? स्वानभिज्ञः। तथा जातोहमत्र दीर्घमसकृजातुचित् कदाचिदपि । किं कुर्वन् ? अभिजानन् । किं तत् ? परं परद्रव्यं स्पर्शरसगन्धरूपप्रधानम् । कैः ? खैरिन्द्रियैश्चतुर्भिः स्पर्शनरसनघ्राणचक्षुर्भिः। क? घनतमसि भ्रमरादिस्थाने । किंविशिष्टः सन् ? स्वानभिज्ञः। तथा जातोहमत्र दीर्घमसकृत्कचित् कदाचित् । किं कुर्वन् ? अभिजानन् । किं तत् ? परं परद्रव्यं स्पर्शरसगन्धवर्णशब्दप्रधानम् । कः ? खैः श्रोत्रान्तैः स्पर्शनरसनघ्राणचक्षुःश्रोत्रैर्यथासंख्यम् । श्रोत्रमन्ते येषां तानि श्रोत्रान्तानीति विग्रहः । क? घनतमसि गोरहरादिस्थाने । असंज्ञित्वे सतीत्यर्थः । किंविशिष्टः सन् ? स्वानभिज्ञः । तथा जातोहमत्र दीर्घमसकृत् क्वचिच्चानेहसि काले । कदाचिदपीत्यर्थः । किं कुर्वन् ? अभिजानन् । किं तत् ? परं परद्रव्यं स्पर्शरसगन्धवर्णशब्दश्रुतार्थविषयम् । केन ? अपि मनसा मनःषष्ठैः पञ्चभिरपीन्द्रियैरित्यर्थः । संज्ञित्वं प्राप्तोहमिति यावत् । क्व ? घनतमसि मनुष्यादिस्थाने । किंविशिष्टः सन् ? स्वानभिज्ञः । कदा कस्मिन् काले आपं लब्धवानहम् ? काम् ? बोधि रत्नत्रयप्राप्तिम् । किं विशिष्टः सन् ? प्राप्तः। किं तत् ? नरत्वं मनुष्यत्वम् । किंविशिष्टम् ? ईदृक् सुजात्यादिसंपन्नम् । यत एवं बोधेदुर्लभत्वं संसारे तत् तस्मात् कारणात् । यते प्रयत्नं करोम्यहम् । क ? इह बोधौ । कथम् ? अलमत्यर्थम् । क ? जन्मसिन्धी संसारसमुद्रे । किंवत् ? रत्नवद् रत्ने यथा । यथा कश्चित्स बुद्रमध्येऽत्यन्तदुर्लभं रत्नं प्राप्य अलं यतते तथा संसारेऽत्यन्तदुर्लभां बोधि प्राप्याहं प्रयत्नं करोमीत्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org