SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ ४३९ सम्यग्लोकस्थितिभावनयाऽधिगतसंवेगस्य मुक्त्यर्थसामर्थ्य समुद्भवं भा वयति - षष्ठोऽध्यायः । लोकस्थितिं मनसि भावयतो यथावद्, दुःखार्तदर्शन विजृम्भितजन्मभीतेः । सद्धर्मतत्फलविलोकनरञ्जितस्य, साधोः समुल्लसति कापि शिवाय शक्तिः ॥ ७७ ॥ 1 समुल्लसति समुद्भवति । कासौ ? कापि अलौकिकी शक्तिः सामर्थ्यम् । कस्मै ? शिवाय अपवर्गार्थम् । कस्य ? साधोः सिद्धिसाधनोद्यतस्य । किं कुर्वतः ? भावयतः पुनः पुनश्चिन्तयतः । काम् ? लोकस्थिति जगत इत्थंभावनियमम् । क ? मनसि अन्तश्चेतसि । कथम् ? यथावत् सम्यक् । पुनः किंविशिष्टस्य ? दुःखार्तदर्शन विजृम्भितजन्मभीतेः दुःखपीडितलोकावलोकनेन प्रवृत्तसंसारभयस्य । पुनरपि किंविशिष्टस्य ? सद्धर्मे - त्यादि । सद्धर्मः शुद्धात्मानुभूतिः तत्फलं परमानन्दः । सद्धर्मश्च तत्फलविलोकनं च सङ्घर्मतत्फलविलोकने । ताभ्यां रञ्जितः कृतानुरागः सद्धर्मतत्फलविलोकनरञ्जितस्तस्य । एवं चिन्तयतस्तत्त्वज्ञानविशुद्धिर्भवति । इति लोकानुप्रेक्षा । संप्रति बोधिदुर्लभत्वं प्रणिधत्ते जातोन दीर्घ घनतमसि परं स्वानभिज्ञो ऽभिजानन्, जातु द्वाभ्यां कदाचित्रिभिरहमसकृज्जातुचित्खैश्चतुर्भिः । श्रोत्रान्तैः कर्हिचिच्च कचिदपि मनसानेहसीदृङ्नरत्वं, प्राप्तो बोधिं कदापं तदलमिह यते रत्न जन्मसिन्धौ ॥ ७८ ॥ जात उत्पन्नोहम् । क ? अत्र एतस्मिँल्लोके । कथम् ? दीर्घ चिरकालम् । कथम् ? असकृद्वारंवारम् । क ? घनतमसि । घनं निबिड तमो मिथ्यात्वस्वरूपमन्धकारो यत्र तद्वनतमस्तस्मिन् । नित्यनिगो ता दिस्थाने इत्यर्थः । किं कुर्वन् ? अभिजानन् आभिमुख्येन परि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy