________________
४३८
अनगारधर्मामृते.
तथा अतिमहान् अत्यंत विपुलः । घनाकारेण त्रिचत्वारिंशदधिकर• जुशतत्रयप्रमित इत्यर्थः । तथा अनादिनिधनः सृष्टिसंहाररहितः । उक्त च
लोओ अंकिट्टिमो खलु अणाइणिहणो सहावणिबंधो।
जीवाजीवहिं फुढो सव्वागासऽवयवो णिच्चो॥ अत्र एतस्मिंल्लोके धावति वेगेन गच्छति । किं तत् ? मनश्चित्तम् । कस्यै ? सिद्ध्यै बहिः सिद्धक्षेत्राय लोकाग्राय, अध्यात्मं च स्वात्मोपलब्धये । किं कुर्वतः? अधियतो ध्यायतः साधोः । कान् ? नृन् मनुष्यान् । क? मध्ये मानुषोत्तरपर्वतपर्यन्ते जम्बूद्वीपलवणोदकधातकीखण्डद्वीपकालोदकसमुद्रपुष्करवरद्वीपार्धरूपे मध्यदेशे । किं विशिष्टान् ध्यायतः ? कर्मोदर्चिरुपप्लुतान् । कर्माणि ज्ञानावरणादीनि उदर्चिषोऽग्नय इव, तापत्रयहेतुत्वात् कर्मोदर्चिषः । तैरुरप्लुतानुपद्रुतान् । तथा कर्मोदर्चिरुपप्लुतान् सुरान् यथायथं यथात्मीयस्थानं ध्यायतः साधोः सिद्ध्यै मनो धावति ॥ तत्र भवनवासिनां मुखे योजनशतानि विंशतिमुपर्यधश्चैकैकसहस्रं त्यक्त्वा खरभागे नागादिनवानां कुमाराणां पङ्कबहलभागे त्वसुराणां राक्षसानां च स्थानानि । व्यन्तराणामधस्ताचित्रावज्रावनीसंधेरारभ्योपरिष्ठान्भेलं यावत् तिर्यक् च समन्तादास्पदानि । ज्योतिषाणामतो भूमेनवत्यधिकसप्तशतयोजनान्याकाशे गत्वोचं दशोत्तरशतयोजनावकाशे नभोदेशे तिर्यक् च घनोदधिवातवलयं यावद्विमानाधिष्ठानानि । वैमानिकानां पुनरूव॑मृज्विन्द्रकादा. रभ्य सर्वार्थसिद्धिं यावद्विमानपदानि । इति यथागमं विस्तरतश्चिन्त्यम् ।
तथा कर्मोदर्चिरुपप्लुतान् श्वाभ्रान् नारकानधोऽबहलभागात्प्रभृति ध्यायतः साधोः सिद्ध्यै मनो धावति । तथा कर्मोंदर्चिरुपप्लुतान् तिरश्च स्तैर्यग्योनीनभितः समन्तात् सर्वत्र लोके ध्यायतः साधोः सिध्यै मनो धावति ।
१--लोकोऽकृत्रिमः खलु अनादिनिधनः स्वभावनिर्बन्धः।
सीवाजीवैः......... ... ... ... ... ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org