SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः । आनन्दो निर्दहत्युद्यं कर्मेन्धनमनारतम् । न चासो खिद्यत योगी बहिर्दुःखेष्वचेतनः ॥ सैषा कुशलशार्दूलमूला संज्ञा शुभानुबन्धा च निर्जराः परीषहजये कृते सति प्रवृत्तत्वात् । एवं निर्जरागुणदोषभावनं निर्जरानुप्रेक्षा । एवं भावय निर्जरार्थं प्रवर्तते । इति निर्जरानुप्रेक्षा । इदानीं लोकालोकस्वरूपं निरूप्य तद्भावनापरस्य स्वात्मोपलब्धियोग्यतामुपदिशति जीवाद्यर्थचितो दिवर्धमुरजाकारस्त्रिवातीवृतः, स्कन्धः खेऽति महाननादिनिधनो लोकः सदास्ते स्वयम् । नॄन् मध्येत्र सुरान् यथायथमधः श्राश्रांस्तिरचोभितः, कर्मोदचिंरुपप्लुतानधियतः सिद्ध्यै मनो धावति ॥ ७६ ॥ ४३७ आस्ते तिष्ठति । कोसौ ? लोकः । लोक्यन्ते दृश्यन्ते जीवादयः पदार्था अस्मिन्निति लोकः । क ? खे अरोकाक शे न वराहदेष्ट्रादौ । कथम् ? सदा सर्वस्मिन्काले । कथम् ? स्वयमात्मना । न केनचित्कदाचिद्धृत इत्यर्थः । किंविशिष्टांसी ? जीवाद्यर्थचितो जीवपुद्गलधर्माधर्माकाशकालैर्व्याप्तः । तथा दिवर्धमुरजाकारः अधोन्यस्तमृदङ्गार्धमुखस्थापितोर्ध्वमृदङ्गसम संस्थानः । इत्थं वा वेत्रासन मृदङ्गोरुझल्लरीसहशाकृतिः । अधश्चों च तिर्यक् च यथायोगम् । इति त्रिधा । तथा त्रिवातीवृतः त्रयाणां वातानां घनोदधिधनवाततनुवातसंज्ञानां मत्तां समाहारस्त्रिवाती । तया वृतो वृक्ष इव त्वक्त्रयेण वेष्टितः । तथा स्कन्धः समुदायरूपः । उक्तं च सवाओ पंच समओत्ति जिणोत्तमेहिं पण्णत्तं । सो चैव हवदि लोओ तत्तो आमदों अलोगो खं ॥ १–समवायः पञ्चानां समय इति जिनोमैः प्रज्ञप्तम् । सचैव भवति लेकः ततोऽमितोऽलोः खम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003098
Book TitleAnagar Dharmamrutam
Original Sutra AuthorN/A
AuthorAshadhar, Bansidhar Shastri, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1919
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy