________________
४३६
अनगारधर्मामृते
कम् ? क्षयमपचयम् । कथम् ? अवयवशोशेनांशेन । कैः ? तैस्तैः प्रसिद्ध. रुपायैर्धाटकादिभिः । कथम् ? प्रसभं हठात् । ___ अनादिप्रवृत्तबन्धसहभाविनिर्जरानुशयानुस्मरणपुरस्सरं संवरसहभाविनि
राप्रधानफलमात्मध्यानं प्रतिजानीतेभोज भोजमुपात्तमुज्झति मयि भ्रान्तेल्पशोनल्पशः, स्वीकुर्वत्यपि कर्म नूतनमितः प्राक् को न कालो गतः। संप्रत्येष मनोऽनिशं प्रणिदधेऽध्यात्मं न विन्दन्बहि,दुःखं येन निरास्त्रवः शमरसे मज्जन्भजे निर्जराम् ॥ ७५ ॥ __ कः कालो न गतो नातीतः प्रागस्माद्वर्तमानक्षणात्पूर्वम् । सों गत इत्यर्थः । व सति ? मयि आत्मनि । किं कुर्वति ? उज्झति त्यजति सति । किं तत् ? कर्म । किंविशिष्टम् ? उपात्तं बद्धम् । कथम् ? भोज भोज भुक्त्वा भुक्त्वा । कियत् ? अल्पशः स्तोकमालिप्रमाणम् । कीदृशे मयि ? भ्रान्ते अनादिमिथ्यात्वसंस्कारवशादेहा. त्मनोरेकत्वाध्यवसायपरिणते सति । तथा स्वीकुर्वत्यपि बध्नति सति । किं तत् ? कर्म । किंविशिष्टम् ? नूतनं प्रतिनवम् । कियत् ? अनल्पशो बहखारिप्रमाणम् । एतन्निर्जरादोषानुचिन्तनमबुद्धिपूर्वाया नरकादिषु कर्मवशजाया अकुशलानुबन्धासंज्ञायास्तस्या विवक्षितत्वात् । ततः संप्रति किं करोमीत्याह-एष स्वसंवेदनप्रत्यक्षोहमात्मा प्रणिदधे समादधे। किं तत् ? मनश्चित्तम् । क ? संप्रति इदानीम् । क ? अध्यात्ममन्तः । कथम् ! अनिशं सततम् । येन सतताध्यात्ममनःप्रणिधानेन भजे सेवेहम् । काम् । निर्जरामेकदेशकर्मक्षयम् । किं कुर्वन् ? मज्जन आविशन् । क? शमरसे प्रशमसुखे । कीदृशः सन् ? निरास्रवः कृताशुभकर्मसंवरः । किं कुर्वन् यतः ? न विन्दन अचेतयमानः । किं तत् ? बहिर्दुःखं परीषहोपसर्गकृतकृच्छ्रम् । उक्तं च
आत्मानुष्ठान निष्ठस्य व्यवहारबहिःस्थितेः। जायते परमानन्दः कश्चिद्योगेन योगिनः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org