________________
षष्ठोऽध्यायः ।
४३५ कम् ? तं योगिनं । कैः ? कटाक्षैरनुरागोद्रेकानुभावैः अन्तरङ्गलक्ष्मीस्तस्य कतिपयदिनलभ्या भवतीत्यर्थः । किंविशिष्टमपि ? अङ्कं श्रितमपि उत्सङ्गमाश्रितमपि । कस्याः ? बाहीकश्रियो बाह्यलक्ष्म्याः तपोतिशयद्धेरित्यर्थः । यः किम् ? यो धीरः परीपहोपसगैरक्षोभ्यः सन्ननुषजति आसक्तो भवति । छ ? आत्मसंपदि आत्मसंवित्तौ । कथम् ? अजस्रं संततम् । किं कुर्वाणः ? उपेक्षमाण औदासीन्येन भावयन् । कान् ? कर्मशत्रून् । किं कुर्वतः ? भ्रश्यतः स्वस्मादुपगच्छतः । केन ? कालेन । स्वयं पक्त्वा कर्मपुद्गलान् गलत इत्यर्थः । संवरपूर्विकां निर्जरां कुर्वन्निति यावत् । किं कृत्वा भ्रश्यतः ? आविश्य अनुप्रविश्य विशिष्टशक्तिपरिणामेनावस्थाय । कानू ? देशान् कर्ममलीमसचिदंशान् । कस्य ? स्वस्य स्वात्मनः । कया ? गुणविगुणतया गुणानां सम्यक्त्वादीनां विगुणता मिथ्यात्वादिपरिणामो गुणविगुणता, तया । न केवलमुपेक्षमाणः, प्रापयंश्च नयन् । कान् ? ततुकामान् स्वफलदानोन्मुखान् कर्मशत्रून् । कम् ? क्षयं विश्लेषम् । कथम् ? अवयवशोंऽशेनांशेन । कैः ? उपायैरुपक्रमैः । किंविशिष्टः ? तैस्तैः प्रसिद्धैरनशनादिभिः। कथम् ? प्रसभं हठात् । हठवृत्या स्वफलदानोन्मुखान् कर्मशत्रून् क्षपयन्नित्यर्थः । एतन्निर्जरागुणानुचिन्तनम् । अथ पार्थः कथ्यते
1
1
अत्र द्वौ नायकौ दुर्गमध्यगतो जनपदस्थितश्च । तत्र तं जनपद स्थितनायकं रमयति । कासौ ? आन्तर श्रीर्दुर्गमध्यगतसंपत् । कैः ? कटाक्षैरनुरागोद्रेकानुभावैः। किंविशिष्टम् ? अङ्कं श्रितमपि उत्सङ्गमाश्रितमपि । कस्याः ? बाहीकश्रियो बाह्यलक्ष्म्याः । जनपदविभूतेरित्यर्थः । यः किम् ? यो धीरो धीरोदात्तनायकोऽनुषजति । कस्याम् ? आत्मसंपदि विजिगीषुगुणसामग्र्याम् । प्रभुशक्तावित्यर्थः । कथम् ? अजस्रं नित्यम् । किं कुर्वाणः ? उपेक्षमाणोऽवहेलयन् । कान् ? कर्मशत्रून् व्यापारपररिपून् । किं कुर्वतः ? भ्रश्यतोऽपचीयमानान् । केन ? कालेन समयेन । कया ? गुणविगुणतया गुणानां संधिवि. ग्रहादीनां विगुणतया प्रयोगवैपरीत्येन । किं कृत्त्वा ? आविश्य प्रविश्य । कान् ? देशान् विषयान् । कस्य ? स्वस्य नायकात्मनः । न केवलमुपेक्षमाणः, प्रापयंश्च नयन् कर्मशत्रून् । किंविशिष्टान् ? तप्कामान् उपद्रोतुमिच्छून् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org