________________
४३४
अनगारधामृतेकिंविशिष्टम् ? दृप्यदलं दृप्यदहमहमिकया प्रवर्तमानं बलं पराक्रमो यस्य तद् दृप्यदलम् । कस्मै ? अवस्कन्दाय लक्षणया शुद्धात्मस्वरूपोपघाताय अतर्कितोपस्थितप्रपाताय च । कथं रोद्धम् ? यथास्वं यो यः स्वः । तत्र सम्यग्दर्शनस्य रोद्धव्यं स्वप्रतिपक्षभूतमिथ्यादर्शनम् । सम्यग्ज्ञानस्य मिथ्याज्ञानम् । अविरतेन्द्रियप्राणिविषयायाः समितिपरं संयमो व्रतानि वा प्रमादस्य कुशलेष्वनुत्साहलक्षणस्योत्साहः सत्त्वं च । क्रोधस्य क्षमा। मानस्य मार्दवम् । मायाया आर्जवम् । लोभस्य शौचम् । रागद्वेषयोः समत्वं निर्ममत्वं वा। मनोयोगस्य मनोनिग्रहः । वाग्योगस्य वाग्निग्रहः । काययोगस्य च कायनिग्रहः । इति यथास्वं सुधीः शुद्धसुदर्श. नादीन् प्रयुञ्जानो न परं दुष्कर्मप्रकृतीः प्रतिहन्ति । किंतु कुरुते । काः ? श्रियो देवेन्द्रनरेन्द्रादिविभूतीः । किंविशिष्टाः ? उत्काः सोत्कण्ठाः । किं कर्तुम् ? भोक्तुं सेवितुम् । कम् ? स्वमात्मानम्। अनिच्छतोपि तस्योपभोगाय त्वरमाणा इत्यर्थः । अत एव हन्त इति हर्षे । हृष्यामो वयं, यदेवमनिच्छन्तमपि तं महाभागमिन्द्रादिसंपदः सेवन्ते इत्यर्थः । यः सुधीर्विद्याविनीतमतिर्विजिगीषुनायकः शत्रुबलं सौप्तिकायोद्यतं प्रतिहन्तुं यथास्वं यो यस्मै प्रभवति तं तं प्रति तं तं प्रयुङ्क्ते स न परं दुष्कर्मप्रकृतीर्दुराचारानमात्यादीन् दुर्गतिपरीवर्तेकपाकान् दारिद्यपर्यायसंपादनैकफलान् निःशेषान् प्रतिहन्ति कुरुते स्वं भोक्तुमुत्काः श्रियोऽभ्युदयसंपद इत्यप्राकरणिकोप्यर्थः सहृदयैर्हदि निधेयः । एवं चिन्तयन् नित्यं संवरोद्युक्तो भवति । इति संवरानुप्रेक्षा । __ संग्रति निर्जरामनुप्रेक्षितुं तदनुग्रहं प्रकाशयन्नाहयः स्वस्याविश्य देशान् गुणविगुणतया भ्रश्यतः कर्मशत्रून्, कालेनोपेक्षमाणः क्षयमवयवशः प्रापयंस्तप्नुकामान् । धीरस्तैस्तैरुपायैः प्रसभमनुषजत्यात्मसंपद्यजस्रं, तं बाहीकश्रियोकं श्रितमपि रमयत्यान्तरधीः कटाक्षः ॥७४॥ रमयति रतिं नयति । कासौ ? आन्तरधीरनन्तज्ञानादिविभूतिः १ स्कन्दाय।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org