________________
षष्ठोऽध्यायः।
४३३
दानाय प्रेरयिता कर्मप्रयोक्ता ज्ञानावरणादिकर्मविपाकः । पक्षे, कर्मणि नर्तनाख्ये प्रयोक्ता नर्तक्या व्यापारयिता कर्मप्रयोक्ता नाट्याचार्यः। परतन्त्रस्य भावः परतन्त्रता पारतच्यम् । तदधीनतया वृत्तिः, कर्मप्रयोक्तः परतन्त्रता, कर्मप्रयो. क्तपरतंत्रता तया । किमर्थमित्थं नटन्तीं नतंकी मिव चिच्छक्तिं निषेधतीत्यत्राह अग्रिमपुमर्थसमागमाय । पुंसः पुरुषस्यार्थोऽभिलष्यमाणो भावः पुमर्थः पुरुषार्थः । अग्रिमः प्रधानभूतश्वासौ पुमर्थश्चाग्रिमपुमर्थः प्रधानपुरुषार्थों धर्मो मोक्षो वा । पक्षे, कामस्याग्रे भवोग्रिमोर्थः तस्यैव विजिगीषुणा यजतोऽर्जनीयत्वाद् विषयोपभोगस्य चेन्द्रियमनःप्रसादनमात्रफलत्वेन यथावसरमनुज्ञानात् । अग्रिमपुमर्थस्य समागमः संप्राप्तिस्तस्मै । एतेनात. वनिरोधः संवर इति सूत्रार्थः स्फुटीकृतः प्रतिपत्तव्यः ।
मिथ्यात्वाद्यास्त्रवप्रकारान् शुद्धसम्यक्त्वादिसंवरप्रकारैर्निरुन्धतो मुख्यम. शुभकर्मसंवरण मानुषङ्गिकं च सर्वसंपत्प्राप्तियोग्यत्वं फलमाहमिथ्यात्वप्रमुखद्विषदलमवस्कन्दाय दृप्यदलं रोढुं शुद्धसुदर्शनादिसुभटान् युञ्जन् यथास्वं सुधीः । दुष्कर्मप्रकृतीन दुर्गतिपरीवर्तेकपाकाः परं, निःशेषाः प्रतिहन्ति हन्त कुरुते स्वं भोक्तुमुत्काः श्रियः ७३
न परं न केवलं सुधीः प्रेक्षापूर्वकारी मुमुक्षुः प्रतिहन्ति प्रतिबध्नाति । का: ? दुष्कर्मप्रकृतीरसद्वेद्यादिकर्मबन्धप्रकारान् । किं विशिष्टाः ? निःशेषाः समस्ताः। कीदृक्फलाः ? दुर्गतिपरीवर्तेकपाकाः। दुर्गतिषु नारकतिर्यक्रमानुषकुदेवपर्यायेषु परिवर्तनं ग्रहणमोक्षणं दुर्गतिपरीवर्तः स एकोऽद्वितीयः पाकः फलं यासां तास्तथोक्ताः । किं तर्हि ? हन्त कुरुते स्वं भोक्तुमुत्काः श्रियः इति गत्वा संबन्थः कर्तव्यः । किं कुर्वन् सुधी: ? युञ्जन् प्रयुञ्जानः । कान् ? शुद्धसुदर्शनादिसुभटान् निरतीचारसम्यग्दर्शनप्रभृतिवीरपुरुषान् । किं कर्तुम् ? रोर्बु प्रतिबद्धम् । किं तत् ? मिथ्यात्वप्रमुखद्विषदलम् । मिथ्यात्वं प्रमुखमायं यस्य मिथ्याज्ञानाविरतिप्रमादकषाययोगप्रकारस्यास्रवस्य सोयं मिथ्यात्वप्रमुखो विषवलं शत्रुसैन्य मिव, विजिगीषोरिव मुमुक्षोरवश्यप्रतिरोधित्वात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org