________________
अनगारधर्मामृते
सांप्रतं संवरमनुप्रेक्षितुं तद्गुणांश्चिन्तयति
४३२
कर्मप्रयोक्तृपरतन्त्रतयात्मरङ्गे प्रव्यक्तभूरिरसभावभरं नटन्तीम् । चिच्छक्तिमग्रिमपुमर्थ समागमाय, व्यासेधतः स्फुरति कोपि परो विवेकः ॥ ७२ ॥
स्फुरति दीयते । कोसौ ? कोपि कश्चिदनिर्वचनीयः परः प्रकृष्टो विवेकः शुद्धोपयोगेऽवस्थानम् । पक्षे, हिताहितविचारश्च । उक्तं चविहाय कल्पनाजालं स्वरूपे निश्चलं मनः । यदाधत्ते तदैव स्यान्मुनेः परमसंवरः ॥
कस्य ? जिगीषेोरिव घटमानयोगस्य मुनेः । किं कुर्वतः ? व्यासेधतो निषेधतः सतः । काम् ? चिच्छक्तिम् । चितश्चेतनस्य शक्तिवर्यम् । किं कुर्वन्तीम् ? नदन्तीमवस्यन्दमानाम् । जीवेन सह भेदविवक्षया चिच्छक्तेरेवमुच्यते । अन्यथा शक्तेर्जीव परिणामत्वाच्चलनक्रिया नोपपद्यते, द्रव्याश्रयत्वात्तस्याः । स एष आत्मप्रदेश परिस्पन्दलक्षणः कर्मावकारणं योगो बोद्धव्यः । उक्तं च-
पुग्गल विवाइदेहोपण मणवयणकायजुत्तस्स । जीवस्स जा हु सत्ती कम्मागमकारणं जोगो ॥
एतेन नर्तकीमुपमानमाक्षिपति । कथं कृत्वा ? प्रव्यक्तभूरिरसभावभरम् । रसो विभावादिभिरभिव्यक्तः स्थायीभावो रत्यादिः भावो देवादि - विषया रतिः । व्यभिचारी च व्यक्तः । रसाश्च भावाश्च रसभावाः । भूरयः प्रचुराः शृङ्गारादिभेदभिन्ना रसभावा भूरिरसभावाः । तेषां भरोतिशयो लोकोत्तरचमत्कारप्रकारः । प्रव्यक्तः प्रकर्षेण प्रेक्षकजनानामिव परीक्षकजनानां प्रतीतिमानीतः प्रव्यञ्जितुमारब्धो भूरिरसभावभरो यत्र ननकर्मणि तत्तथोक्तम् । क ? आत्मरङ्गे आत्मरङ्गो नर्तनस्थानमिव तथा नटन्त्या नर्तक्या इव चिच्छक्तेरधिष्ठानत्वात् । कया नटन्तीम् ? कर्मप्रयोक्तृपरतन्त्रतया कर्मणां ज्ञानावरणादीनां प्रयोक्ता स्वस्वफल •
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org