________________
षष्ठोऽध्यायः ।
४३१
विधशुद्धिविषयत्वाद्विपुल उद्योग उत्साहो यस्यासौ अप्रमत्तसंयत इत्यर्थः । कम् ? स्वपोतं स्वमात्मानं पोतं यानपात्रमिव भवार्णवोत्तारणप्रवणत्वात् । किं नयेत् ? मुक्तिवेलापत्तनम् । सांयात्रिकवदिति शेषः । किं कुर्वन् ? आधत् कुर्वन् । किं तत् ? योगच्छिद्रपिधानम् | योगा मनोवाक्वायव्यापाराः सम्यक्त्व क्रिया दिपञ्चविंशतिक्रियारूपाः । उपलक्षणादिन्द्रियकषायाव्रतानि च एषामतीन्द्रियज्ञानस्वभावनिः क्षोभरागादिविकल्पशून्याऽचलचैतन्यविलक्षणत्वात् । योगारिछद्राणीव कर्माम्बुप्रवेश निमित्तत्वात् । योगच्छिद्राणां पिधानं छादनं निरोधनम् । क्व वर्तमानं स्वपोतम् ? भवाभोनिधौ संसारसागरे । किंभूते ? उद्भटविपद्भीमे । उद्भटाः प्रतिविधातुमशक्या विषद आपदः । ताभिर्भीमे भयङ्करे । कथंभूतं स्वपोतम् ? सद्रत्तोच्चयपूर्णम् । सन्ति प्रशस्तानि निर्दोषाणि रत्नानि सम्यक्त्वादीनि भाण्डानि च सद्रत्नानि । तेषामुच्चयः संघातः । तेन पूर्ण संभृतम् । कथंभूतो भूत्वा ? विश्वातङ्कविमुक्तमुक्ति निलयद्रङ्गानिमाप्त्युन्मुखः । मुक्तिरनन्तज्ञानादिचतुष्टयावस्था | मुक्तेर्निलय आश्रमो मुक्तिनिलयः परमात्मा दङ्गाणां नगराणामग्रिमं प्रधानं द्रङ्गाग्रिमं वेळापत्तनम् । मुक्ति निलयो दङ्गाग्रि. ममिव, समस्त विनिपातापेतत्वात् । विश्वे सर्वे आतङ्का विनिपातजनितचित्तक्षोभा विश्वातङ्काः । तैर्विशेषेण मुक्तं त्यक्तं विश्वातङ्कविमुक्तम् । तच्च तन्मुक्तिनिलयद्रङ्गाग्रिमं च । तस्य आप्तिः प्राप्तिः । उन्मुखोऽभिमुखः । तद्भवे भवान्तरेषु वा द्वित्रेषु प्राप्य परमपद इत्यर्थः । नो चेदिन्द्रियाद्यास्रवच्छिद्राणि न पिधास्यति चेन्मुमुक्षुः सांयात्रिकस्तदा मक्ष्यति बुडिष्यति । कोसौ ? असौ स्वपोतः । क्व ? तत्र भवाम्भोनिधौ । कस्मात् ? निर्भरविशत्कर्म्माम्बुभारात् । कर्माणि ज्ञानावरणादीन्यम्बूनि जलानीव यानपात्रस्येवात्मनो भवार्णवनिमज्जननिमित्तत्वात् । निर्भरमतिमात्रं विशन्ति प्रविशन्त्यन्तः पतन्ति च तानि कर्माम्बूनि च निर्भरविशत्कर्माम्बूनि । तेषां भारो भरणं पूरणं, तस्मात् । तथा च वार्तिकम् -
"समुद्रे सच्छिद्र पोतवदयं जीव इन्द्रियाद्यास्त्रवैः संसारसागरे पतति " इति । एवं चिन्तयतः क्षमादिधर्मेषु श्रेयस्त्वबुद्धिः स्थैर्यं भजते ॥ इत्याख वानुप्रेक्षा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org