________________
अनगारधर्मामृते
ष्टेन सुकृतेन विशिष्टशक्तिपरिणामेनावस्थितेनाहत्त्य हठाद्वद्धः परतन्त्रीकृतोयं भवी स्यात् । किंविशिष्टः ? शोच्यः शोचनयोग्यः । केषाम् ? सतां सिद्धसाधनोद्यतानाम् । किं कुर्वन् ? मूर्छन् आविशन् । क्व ? शर्माभिमाने अहं सुखीत्यहंकाराविष्टो भवन्नित्यर्थः । कियन्तं कालम् ? अतिचिरं पल्योपमादिप्रमितम् । किंवत् ? कनकनिगडवत् सुवर्णशृङ्खलया तुल्यम् । यथा कश्चिद्राजपुरुषः सुवर्णशङ्खलेन बद्धः स्वस्योत्कर्ष संभावयन् सुखम. भिनिवेशमानस्तत्वदर्शिभिः शोच्येत तथा प्रकृतोपि । तथा एति आगच्छति आस्रवतीति यावत् । किं तत् ? यत्तु पुनरंहः पापमसद्वेद्यादिपापकर्मयोग्यपुद्गलद्रव्यम् । क ? अत्र भविनि । केन ? योगद्वारेण । कीदृशे? आत्तसंक्लेशभावे अप्रशस्तरागद्वेषमोहपरिणते । आत्तो गृहीतः संक्लेशभावो येन स एवम् । मिथ्यात्वाद्यनुरञ्जितजीवप्रदेशवर्तिकर्मस्कन्धान पापकर्मयोग्यपुद्गला आत्मप्रदेशपरिस्पन्दनद्वारेणानुप्रविशन्तीत्यर्थः । तेन तदनुप्रविष्टेनांहसा विशिष्टशक्तिपरिणामेनावस्थितेनावसितोऽवसमन्ताद्धद्धोऽयं भवी ताम्येत् खिद्येत दैन्यमापद्येत । किंभूत इव ? छिन्नमर्मेव
"विषमं स्पन्दनं यत्र पीडनं रुक् च मर्म तत्" छिन्नं लूनं मर्म यस्यासौ छिन्नमर्मा यथा । केनेव ? लोहान्दुकवलो. हनिगडेनेव । यथा कश्चित्कृतापराधो लोहशृङ्खलेन बद्धश्छिन्नमर्मवदू दुःखायते तथा प्रकृतोपीत्यर्थः । अतिचिरमिति अत्रापि योज्यम् ॥
आस्रवं निरन्धानस्यैव मुमुक्षोः क्षेमं स्यादन्यथा दुरन्तसंसारपात इत्युपदेष्टुमाहविश्वातङ्कविमुक्तमुक्तिनिलयद्रङ्गाग्रिमाप्त्युन्मुखः, सद्रत्नोच्चयपूर्णमुद्भटविपद्भीमे भवाम्भोनिधौ । योगच्छिद्रपिधानमादधदुरूद्योगः स्वपोतं नये,नो चेन्मक्ष्यति तत्र निर्भरविशत्कर्माम्बुभारादसौ ॥७१॥ नयेत् प्रापयेत् । कोसौ ? उद्योगः । उरुर्महान् दशविधधर्माष्ट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org